Wednesday, April 23, 2025

Sri Krishna Karnamritam 1.69







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

आन्दोलिताग्रभुजमाकुलनेत्रलील-
मार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।
शिञ्जानभूषणशतं शिखिपिञ्छमौलिं
शीतं विलोचनरसायनमभ्युपैति ॥ १.६९ ॥  

Meaning: This phenomenon - Bhagavān Ṣrīkṛṣṇa - with shoulders swaying (while playing the flute), eyes spreading their sportive look, a melting smile making His face a dewy lotus, at the same time looking like a reflection of the moon, His anklets and waistbands full of jingling bells, His head adorned with peacock feathers - this cool phenomenon which is a veritable delectable dessert, is coming to me!

व्याकरणांशाः
आन्दोलिताग्रभुजमाकुलनेत्रलील-
मार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।
शिञ्जानभूषणशतं शिखिपिञ्छमौलि
शीतं विलोचनरसायनमभ्युपैति ॥ १.६९ ॥
आन्दोलित+अग्रभुजम्,आकुल-नेत्र-लीलम्, आर्द्र-स्मित+आर्द्रवदन+अम्बुज-चन्द्र-बिम्बम्, शिञ्जान-भूषण-शतम्, शिखि-पिञ्छ-मौलि, शीतम्, विलोचन-रसायनम्, अभ्युपैति
सन्धयः
आन्दोलित+अग्रभुजम् = अकः सवर्णे दीर्घः
स्मित+आर्द्रवदन+अम्बुज = अकः सवर्णे दीर्घः
शिञ्जान-भूषण-शतम्, शीतम् = मोऽनुस्वारः
अभि+उप = इको यणचि
उप+एति = वृद्धिरेचि
आकाङ्क्षा-अन्वयः
आन्दोलित+अग्रभुजम् आकुल-नेत्र-लीलम् आर्द्र-स्मित+आर्द्रवदन+अम्बुज-चन्द्र-बिम्बम् शिञ्जान-भूषण-शतम् शिखि-पिञ्छ-मौलि शीतम् विलोचन-रसायनम् अभ्युपैति
This phenomenon - Bhagavān Ṣrīkṛṣṇa - with shoulders swaying (while playing the flute), eyes spreading their sportive look, a melting smile making His face a dewy lotus, at the same time looking like a reflection of the moon, His anklets and waistbands full of jingling bells, His head adorned with peacock feathers - this cool phenomenon which is a veritable delectable dessert, is coming to me!
सुबन्तप्रक्रिया
आन्दोलित+अग्रभुजम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
आकुल-नेत्र-लीलम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
आर्द्र-स्मित+आर्द्रवदन+अम्बुज-चन्द्र-बिम्बम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
शिञ्जान-भूषण-शतम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
शिखि-पिञ्छ-मौलि = इ, नपुं, १.१, सुँ, स्वमोर्नपूम्सकात्
शीतम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
विलोचन-रसायनम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
अभ्युपैति = अबि+उप+ इण् गतौ, अदादिः, परस्मैपदी, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
आन्दोलित+अग्रभुजम् = अग्रं भुजम् क.धा, आन्दोलितम् अग्रभुजम् क.धा, यस्य तत्, बहुव्रीहिः
आकुल-नेत्र-लीलम्= आकुलं लेत्रं क.धा, नेत्रस्य लीला यस्य तत्, बहुव्रीहिः
आर्द्र-स्मित+आर्द्रवदन+अम्बुज-चन्द्र-बिम्बम्= आर्द्रं स्मितम् क.धा, स्मितेन आर्द्रं वदनं ३तत्, क.धा, वदनम् अम्बुजमिव उपमानोत्तर क.धा, चन्द्रस्य बिम्बम् ६तत्, बिम्बमिव उपमानोत्तर क.धा, यस्य तत्, बहुव्रीहिः
शिञ्जान-भूषण-शतम्= भूषणानि शतानि तेषां समाहारः द्विगुः, शिञ्जानं भूषणशतम् यस्य तत्, बहुव्रीहिः
शिखि-पिञ्छ-मौलि = शिखेः पिन्छानि ६तत्, शिखिपिञ्छानि मौलौ यस्य तत्, व्यधिकरणबहुव्रीहिः
विलोचन-रसायनम्= विलोचनाय रसायनम् ४तत्

॥ हरिः ॐ तत् सत् ॥