Saturday, April 19, 2025

Sri Krishna Karnamritam 1.66






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

मारः स्वयं नु मधुरद्युतिमण्डलं नु
माधुर्यमेव नु मनोनयनामृतं नु ।
वाणीमृजा नु मम जीवितवल्लभो नु
बालोऽयमभ्युदयते मम लोचनाय ॥ १.६६ ॥ 
Meaning: This stripling of youth, Bhagavān Ṣrīkṛṣṇa, as Cupid himself in person with His sweet luminous form, delight incarnate in my mind and eye as ambrosia, cleansing and empowering my speech (poetry), as my life's supreme lover, chooses to manifest only for my eyes. What wonder!

व्याकरणांशाः
मारः स्वयं नु मधुरद्युतिमण्डलं नु
माधुर्यमेव नु मनोनयनामृतं नु ।
वाणीमृजा नु मम जीवितवल्लभो नु
बालोऽयमभ्युदयते मम लोचनाय ॥ १.६६ ॥
मारः, स्वयम्, नु मधुर-द्युति-मण्डलम्, नु, माधुर्यम्, एव, नु, मनः+नयन+अमृतम्, नु, वाणी-मृजा, नु, मम, जीवित-वल्लभः, नु, बालः+ अयम्, अभ्युदयते, मम, लोचनाय
सन्धयः
मारः + स्वयम् = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
स्वयम्, मधुर-द्युति-मण्डलम्, मनः+नयन+अमृतम् = मोऽनुस्वारः
मनस्+नयन = ससजुषो रुः & हशि च & आद्गुणः
नयन+अमृतम् = अकः सवर्णे दीर्घः
वल्लभः+ नु = = ससजुषो रुः & हशि च & आद्गुणः
बालः+ अयम् = ससजुषो रुः & अतो रोरप्लुतादप्लुते & आद्गुणः & एङः पदान्तादति
मारः, स्वयम्, नु मधुर-द्युति-मण्डलम्, नु, माधुर्यम्, एव, नु, मनः+नयन+अमृतम्, नु, वाणी-मृजा, नु, मम, जीवित-वल्लभः, नु, बालः+ अयम्, अभ्युदयते, मम, लोचनाय
वक्षः+स्थले= ससजुषो रुः & खरवसानयोर्विसर्जनीयः & वा शरि
विपुलम्, मृदुलम्, मधुरम्, बालम् = मोऽनुस्वारः
नयन+उत्पले = आद्गुणः
बिम्ब+अधरे = अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
बालः+ अयम् मारः स्वयम् नु मधुर-द्युति-मण्डलम् नु माधुर्यम् एव नु मनः+नयन+अमृतम् नु वाणी-मृजा नु मम जीवित-वल्लभः नु मम लोचनाय अभ्युदयते
This stripling of youth, Bhagavān Ṣrīkṛṣṇa, as Cupid himself in person with His sweet luminous form, delight incarnate in my mind and eye as ambrosia, cleansing and empowering my speech (poetry), as my life's supreme lover, chooses to manifest only for my eyes. What wonder!
सुबन्तप्रक्रिया
मारः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
स्वयम् = अव्ययम्
मधुर-द्युति-मण्डलम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
नु = अव्ययम्
माधुर्यम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
एव= अव्ययम्
मनः+नयन+अमृतम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
वाणी-मृजा = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपप्कृतं हल्
मम = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
जीवित-वल्लभः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
बालः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अयम् = इदम्, पुं, १.१, सुँ, त्यदादीनामः, इदोऽयम् पुंसि, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
लोचनाय = अ, नपुं, ४.१, ङे, ङेर्यः, सुपि च
तिङन्तप्रक्रिया
अभ्युदयते = अभि+ उद् + अयँ गतौ, भ्वादिः, आत्मनेपदी, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
मधुर-द्युति-मण्डलम् = मधुरा द्युतिः क.धा, तस्याः मण्डलम् ६तत्
माधुर्यम् = मधुरस्य भावः ष्यञ्, तद्धितः
मनः+नयन+अमृतम् = मनसे च नयनाय च अमृतम् ४तत्
वाणी-मृजा = वाण्याः मृजा ६तत्
जीवित-वल्लभः = जीवितस्य वल्लभः ६तत्

॥ हरिः ॐ तत् सत् ॥