Tuesday, April 22, 2025

Sri Krishna Karnamritam 1.68







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

बालोऽयमालोलविलोचनेन
वक्त्रेण चित्रीकृतदिङ्मुखेन ।
वेषेण घोषोचितभूषणेन
मुग्धेन दुग्धे नयनोत्सवं नः ॥ १.६८ ॥  
Meaning: This precocious boy - Bhagavān Ṣrīkṛṣṇa - milks for our eyes a feast of delight by His constantly darting eyes, His face innocently scanning in all directions, His rustic cowherd dress appropriate for Vraja, the village of cowherds, and matching ornaments (His garland of wild flowers, a few peakcock feathers in His tied up hair...)!

व्याकरणांशाः
बालोऽयमालोलविलोचनेन
वक्त्रेण चित्रीकृतदिङ्मुखेन ।
वेषेण घोषोचितभूषणेन
मुग्धेन दुग्धे नयनोत्सवं नः ॥ १.६८ ॥
बालः+अयम्, आलोल-विलोचनेन, वक्त्रेण, चित्रीकृत-दिङ्मुखेन, वेषेण, घोष+उचित-भूषणेन, मुग्धेन, दुग्धे, नयन+उत्सवम्, नः
सन्धयः
बालः+अयम् = ससजुषो रुः & अतो रोरप्लुतादप्लुते & आद्गुणः & एङः पदान्तादति
घोष+उचित = आद्गुणः
नयन+उत्सवम् = आद्गुणः
नः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
अयम् बालः आलोल-विलोचनेन वक्त्रेण मुग्धेन चित्रीकृत-दिङ्मुखेन घोष+उचित-भूषणेन वेषेण (च) नः नयन+उत्सवम् दुग्धे
This precocious boy - Bhagavān Ṣrīkṛṣṇa - milks for our eyes a feast of delight by His constantly darting eyes, His face innocently scanning in all directions, His rustic cowherd dress appropriate for Vraja, the village of cowherds, and matching ornaments (His garland of wild flowers, a few peakcock feathers in His tied up hair...)!
सुबन्तप्रक्रिया
बालः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अयम् = इदम्, पुं, १.१, सुँ, इदमो मः, इदोऽ पुंसि, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
आलोल-विलोचनेन = अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः
वक्त्रेण= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, अट्कुप्वाङ्नुम्व्यवायेऽपि
चित्रीकृत-दिङ्मुखेन= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः
वेषेण =अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, अट्कुप्वाङ्नुम्व्यवायेऽपि
घोष+उचित-भूषणेन= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः
मुग्धेन= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः
नयन+उत्सवम् = अ, पुं, २.१, अम्, अतोऽम्
नः = युष्मद्, पुं, ६.३, आम्, आमि सर्वनाम्नः सुट्, साम आकम्, शेषे लोपः, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ, बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
दुग्धे = दुहँ प्रपूरणे अदादिः, आत्मनेपदी (उभयपदी), लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
आलोल-विलोचनेन = आलोलं लोचनम् क.धा, तेन
चित्रीकृत-दिङ्मुखेन=अचित्रितं चित्रितं कृतं - चित्रीकृतम् मुखम् - क.धा। दिशां चित्रीकृतं मुखम् ६तत्
घोष+उचित-भूषणेन= उचितं भूषणम् क.धा, घोषस्य उचितभूषणम्, ६तत्, तेन
नयन+उत्सवम् = नयनस्य उत्सवम् ६तत्, तम्

॥ हरिः ॐ तत् सत् ॥