Thursday, April 17, 2025

Sri Krishna Karnamritam 1.65






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

वक्षःस्थले च विपुलं नयनोत्पले च
मन्दस्मिते च मृदुलं मदजल्पिते च ।
बिम्बाधरे च मधुरं मुरलीरवे च 
बालं विलासनिधिमाकलये कदा नु ॥ १.६५ ॥    
Meaning: Oh, when, indeed, will I get to see Bhagavān Ṣrīkṛṣṇa and immerse myself in Him who is expansive in His chest as well as His lotus-like eyes, soft and sweet in His gentle smile as well as His endearing speech, alluring in His Bimba-like lips as well as His flute music; indeed the youth who is the reservoir of delightful sport?

व्याकरणांशाः
वक्षःस्थले च विपुलं नयनोत्पले च
मन्दस्मिते च मृदुलं मदजल्पिते च ।
बिम्बाधरे च मधुरं मुरलीरवे च
बालं विलासनिधिमाकलये कदा नु ॥ १.६५ ॥
वक्षः+स्थले, च, विपुलम्, नयन+उत्पले, च, मन्द-स्मिते, च, मृदुलम्, मद-जल्पिते, च, बिम्ब+अधरे, च, मधुरम्, मुरली-रवे, च, बालम्, विलास-निधिम्, आकलये, कदा, नु
सन्धयः
वक्षः+स्थले= ससजुषो रुः & खरवसानयोर्विसर्जनीयः & वा शरि
विपुलम्, मृदुलम्, मधुरम्, बालम् = मोऽनुस्वारः
नयन+उत्पले = आद्गुणः
बिम्ब+अधरे = अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
आकलये कदा नु वक्षः+स्थले च विपुलम् नयन+उत्पले च मन्द-स्मिते च मृदुलम् मद-जल्पिते च बिम्ब+अधरे च मधुरम् मुरली-रवे च बालम् विलास-निधिम्
Oh, when, indeed, will I get to see and immerse myself in Bhagavān Ṣrīkṛṣṇa who is expansive in His chest as well as His lotus-like eyes, soft and sweet in His gentle smile as well as His endearing speech, alluring in His Bimba-like lips as well as His flute music; indeed the youth who is the reservoir of delightful sport?
सुबन्तप्रक्रिया
वक्षः+स्थले = अ, नपुं, ७.१, ङि, आद्गुणः
च = अव्ययम्
विपुलम् = अ, पुं, २.१, अम्, अमि पूर्वः
नयन+उत्पले= अ, नपुं, ७.१, ङि, आद्गुणः
मन्द-स्मिते= अ, नपुं, ७.१, ङि, आद्गुणः
मृदुलम्= अ, पुं, २.१, अम्, अमि पूर्वः
मद-जल्पिते= अ, नपुं, ७.१, ङि, आद्गुणः
बिम्ब+अधरे= अ, नपुं, ७.१, ङि, आद्गुणः
मधुरम्= अ, पुं, २.१, अम्, अमि पूर्वः
मुरली-रवे= अ, पुं, ७.१, ङि, आद्गुणः
बालम्= अ, पुं, २.१, अम्, अमि पूर्वः
विलास-निधिम्= इ, पुं, २.१, अम्, अमि पूर्वः
कदा = अव्ययम्
नु = अव्ययम्
तिङन्तप्रक्रिया
आकलये =आङ्+ कल गतौ सङ्ख्याने च, चुरादिः, आत्मनेपदी (उभयपदी), लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
वक्षः+स्थले = वक्षसः स्थलम्, तस्मिन् ६तत्
नयन+उत्पले= नयनम् उत्पलमिव क.धा, तस्मिन्
मन्द-स्मिते= मन्दम् स्मितम् क.धा, तस्मिन्
मद-जल्पिते= मदेन जल्पितम् ३तत्, तस्मिन्
बिम्ब+अधरे= अधरं बिम्बमिव क.धा, तस्मिन्
मुरली-रवे= मुरल्याः रवः ६तत्, तस्मिन्
विलास-निधिम्= विलासस्य निधिः ६तत्, तस्मिन्

॥ हरिः ॐ तत् सत् ॥