Saturday, April 5, 2025

Sri Krishna Karnamritam 1.56






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

 विश्वोपप्लवशमनैकबद्धदीक्षं
विश्वासस्तबकितचेतसां जनानाम् ।
पश्यामः प्रतिनवकान्तिकन्दलार्द्रं
पश्यामः पथि पथि शैशवं मुरारेः ॥ १.५६ ॥   
Meaning: Indeed we are witnessing the One who is avowed singularly to ameliorate the worldly upheavals of the devotees with ever-sprouting faith in Him; at every step, we see Murārī's (Bhagavān Ṣrīkṛṣṇa's) tender youthful form with radiant with new beauty every moment!

व्याकरणांशाः
विश्वोपप्लवशमनैकबद्धदीक्षं
विश्वासस्तबकितचेतसां जनानाम् ।
पश्यामः प्रतिनवकान्तिकन्दलार्द्रं
पश्यामः पथि पथि शैशवं मुरारेः ॥ १.५६ ॥
विश्व+उप-प्लव-शमन+एएबद्ध-दीक्षम्, विश्वास-स्तबकित-चेतसाम्, जनानाम्, पश्यामः, प्रति-नव-कान्ति-कन्दल+आर्द्रम्, पश्यामः, पथि, पथि, शैशवम्, मुरारेः
सन्धयः
विश्व+उप= आद्गुणः
शमन+एकबद्ध = वृद्धिरेचि
दीक्षम्, विश्वास-स्तबकित-चेतसाम्, आर्द्रम्, शैशवम् = मोऽनुस्वारः
कन्दल+आर्द्रम् = अकः सवर्ने दीर्घः
मुरारेः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
विश्वास-स्तबकित-चेतसाम् जनानाम् विश्व+उप-प्लव-शमन+एएबद्ध-दीक्षम् पश्यामः । पथि पथि मुरारेः प्रति-नव-कान्ति-कन्दल+आर्द्रम् शैशवम् पश्यामः
Indeed we are witnessing the One who is avowed singularly to ameliorate the worldly upheavals of the devotees with ever-sprouting faith in Him; at every step, we see Murārī's (Bhagavān Ṣrīkṛṣṇa's) tender youthful form with radiant with new beauty every moment!
सुबन्तप्रक्रिया
विश्व+उप-प्लव-शमन+एएबद्ध-दीक्षम् = अ, पुं, २.१, अम्, अमि पूर्वः
विश्वास-स्तबकित-चेतसाम् = स्, नपुं, ६.३, आम्, वर्णमेलनम्
जनानाम् = अ, पुं, ६.३, आम्, न्रस्वनद्यापो नुट्, नामि
प्रति-नव-कान्ति-कन्दल+आर्द्रम्= अ, पुं, २.१, अम्, अमि पूर्वः
पथि = पथिन्, पुं, ७.१, ङि, भस्य टेर्लोपः, वर्णमेलनम्
शैशवम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
मुरारेः = इ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
पश्यामः = दृशिँर् प्रेक्षणे, भ्वादिः, परस्मैपदी, लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
विश्व+उप-प्लव-शमन+एकबद्ध-दीक्षम् = विश्वस्य उपप्लवः ६तत्, तस्य शमनम् ६तत्, शमनाय एकः तम्, बद्धा दीक्षा यस्य तम् बहुव्रीहिः
विश्वास-स्तबकित-चेतसाम् = विश्वासः स्तबकितः चेताः येषां तेषाम् - बौव्रीहिः
शैशवम् = शिशोः भावः, अण् तद्धितः, तम्
मुरारेः = मुरस्य अरिः ६तत्, तस्य

॥ हरिः ॐ तत् सत् ॥