
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
परिपालय नः कृपालये
त्यसकृज्जल्पितमात्मबान्धवः ।
मुरलीमृदुलस्वनान्तरे
विभुराकर्णयिता कदा नु नः ॥ १.६१ ॥
Meaning: Oh, when will Bhagavān Ṣrīkṛṣṇa, the Supreme Lord, hear our repeated cries, "Oh, the Abode of Compassion, please take care of us!" for He is our soul's close kith and kin- when will He hear our repeated pleas in the silences between his sonorous flute notes?
व्याकरणांशाः |
| | | | | |
त्यसकृज्जल्पितमात्मबान्धवः । | | | | | |
| | | | | |
विभुराकर्णयिता कदा नु नः ॥ १.६१ ॥ | | | | | |
परि-पालय, नः, कृपालय, इति, असकृत्, जल्पितम्, आत्म-बान्धवः, मुरली-मृदुल-स्वन+अन्तरे, विभुः,आकर्णयिता, कदा, नु, नः |
सन्धयः | | | | | |
कृपालय+इति= आद्गुणः |
इति+असकृत् = इको यणचि |
असकृत्+जल्पितम् = झलां जशोऽन्ते & स्तोः श्चुना श्चुः |
स्वन+अन्तरे = अकः सवर्णे दीर्घः |
विभुः+आकर्णयिता = ससजुषो रुः |
आत्म-बान्धवः, नः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः |
आकाङ्क्षा-अन्वयः | | | | |
कदा नु नः असकृत् जल्पितम् परि-पालय नः कृपालय इति आत्म-बान्धवः विभुः मुरली-मृदुल-स्वन+अन्तरे आकर्णयिता |
Oh, when will Bhagavān Ṣrīkṛṣṇa, the Supreme Lord, hear our repeated cries, "Oh, the Abode of Compassion, please take care of us!" for He is our soul's close kith and kin- when will He hear our repeated pleas in the silences between his sonorous flute notes? |
सुबन्तप्रक्रिया | | | | | |
नः = अस्मद्, पुं, ६.३, आम्, आमि सर्वनाम्नः सुट्, साम आकम्, शेषे लोपः, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
कृपालय =अ, पुं, १.१ सम्बोधनम्, सुँ, ऍङ्ह्रस्वात् सम्बुद्धेः |
इति = अव्ययम् |
असकृत् = अव्ययम् |
जल्पितम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः |
आत्म-बान्धवः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
मुरली-मृदुल-स्वन+अन्तरे =अ, नपुं, ७.१, ङि, आद्गुणः |
विभुः = उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
कदा = अव्ययम् |
नु = अव्ययम् |
तिङन्तप्रक्रिया | | | | |
परि-पालय = परि+पा रक्षणे, अदादिः, परस्मैपदी, लोट्, २.१ |
आकर्णयिता = आङ्+ कर्ण नामधातुः, चुरादिः, परस्मैपदी, लुट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
कृपालय =कृपायाः आलयः ६तत्, हे |
असकृत् = न सकृत् नञ्तत्पुरुषः |
आत्म-बान्धवः = आत्मनाम् बान्धवः ६तत् |
मुरली-मृदुल-स्वन+अन्तरे =मुरल्याः स्वनम् ६तत्, मृदु स्वनम् क.धा, तस्य अन्तरम् ६तत्, तस्मिन् |
॥ हरिः ॐ तत् सत् ॥