Wednesday, April 16, 2025

Sri Krishna Karnamritam 1.64





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

 माधुर्यादपि मधुरं    
         मन्मथतातस्य किमपि कैशोरम् ।
चापल्यादपि चपलं
         चेतो मम हरति किं कुर्मः ॥ १.६४ ॥  
Meaning: Bhagavān Ṣrīkṛṣṇa, who is the father of Cupid himself ( Viṣṇu is the father of Manmatha=Cupid, and also Ṣrīkṛṣṇa's son Pradyumna is considered the incarnation of Manmatha) has taken this inexplicable youthful form that is sweeter than all the sweetness of this world, and is tantalising in its unpredictability that exceeds all the fickleness of this world, thus simply stealing away my mind! What can we do!?

व्याकरणांशाः
माधुर्यादपि मधुरं
मन्मथतातस्य किमपि कैशोरम् ।
चापल्यादपि चपलं
चेतो मम हरति किं कुर्मः ॥ १.६४ ॥
माधुर्यात्, अपि, मधुरम्, मन्मथ-तातस्य, किम्, अपि, कैशोरम्, चापल्याद्, अपि, चपलम्, चेतः, मम, हरति, किम्, कुर्मः
सन्धयः
माधुर्यात्+अपि= झलां जशोऽन्ते
मधुरम्, चपलम्, किम् = मोऽनुस्वारः
चापल्यात् +अपि = झलां जशोऽन्ते
चेतः+मम = ससजुषो रुः, हशि च, आद्गुणः
कुर्मः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
मन्मथ-तातस्य किम् अपि माधुर्यात् अपि मधुरम् चापल्याद् अपि चपलम् कैशोरम् मम चेतः हरति किम् कुर्मः
Bhagavān Ṣrīkṛṣṇa, who is the father of Cupid himself ( Viṣṇu is the father of Manmatha=Cupid, and also Ṣrīkṛṣṇa's son Pradyumna is considered the incarnation of Manmatha) has taken this inexplicable youthful form that is sweeter than all the sweetness of this world, and is tantalising in its unpredictability that exceeds all the fickleness of this world, thus simply stealing away my mind! What can we do!?
सुबन्तप्रक्रिया
माधुर्यात् = अ, नपुं, ५.१, ङसि, टाङसिङसामिनात्स्याः, आद्गुणः, झलां जशोऽन्ते, वाऽवसाने
अपि = अव्ययम्
मधुरम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
मन्मथ-तातस्य = अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
किम् = किम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
कैशोरम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
चापल्यात् = अ, नपुं, ५.१, ङसि, टाङसिङसामिनात्स्याः, आद्गुणः, झलां जशोऽन्ते, वाऽवसाने
चपलम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
चेतः = स्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मम = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
किम् = किम्, सर्वनाम, नपुं, २.१, अम्, स्वमोर्नपुंसकात्
तिङन्तप्रक्रिया
हरति = हृ हरणे, भ्वादिः, परस्मैपदी (उभयपदी), लट्, १.१
कुर्मः = डुकृञ् करणे, तनादिः, परस्मैपदी ९उभयपदी), लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
माधुर्यात् = मधुरस्य भावः अथवा कर्म, ष्यञ् तद्धितः, तस्मात्
मन्मथ-तातस्य = मन्मथस्य तातः ६तत्, तस्य
कैशोरम् = किशोरस्य भावः, अञ्, तद्धितः
चापल्यात् = चपलस्य भावः अथवा कर्म, ष्यञ्, तद्धितः

॥ हरिः ॐ तत् सत् ॥