Saturday, February 22, 2025

Sri Krishna Karnamritam 1.26




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।
कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः 
कमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ १.२६ ॥  
Meaning: Oh, Lord Śrīkṛṣṇa! When, oh, when, indeed, will those side-long glances from Your eyes blacker than the dark lotuses in the river Kālindī be bestowed on me? When will those glances with wave after wave of Your compassion be bestowed on me? When will Your glances, cool like the moon in the dark matted locks of Lord Śiva who opposed Cupid (Manmatha) be bestowed on me? When will the sonorous sportive strains of Your flute music give me the immersive experience of joy?

व्याकरणांशाः
कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।
कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः
कमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ १.२६ ॥
कदा, वा, कालिन्दी-कुवलय-दल-श्यामल-तराः, कटाक्षाः, लक्ष्यन्ते, किमपि, करुणा-वीचि-निचिताः, कदा, वा, कन्दर्प-प्रति-भट-जटा-चन्द्र-शिशिराः, कमपि, अन्तस्+तोषम्, ददति, मुरली-केलि-निनदाः
सन्धयः
...श्यामलतराः + कटाक्षा = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च
कटाक्षाः+ लक्ष्यन्ते = = ससजुषो रुः & भोभगोअघोअपूर्वस्य योऽशि & हलि सर्वेषाम्
... निचिताः, ...निनदाः = = ससजुषो रुः & खरवसानयोर्विसर्जनीयः
...शिशिराः + कमपि = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च
अन्तस्+तोषम् = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & वा शरि
तोषम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
कदा वा कालिन्दी-कुवलय-दल-श्यामल-तराः कटाक्षाः लक्ष्यन्ते? किमपि करुणा-वीचि-निचिताः कटाक्षाः लक्ष्यन्ते? कदा वा कन्दर्प-प्रति-भट-जटा-चन्द्र-शिशिराः कटाक्षाः लक्ष्यन्ते? मुरली-केलि-निनदाः कमपि अन्तस्+तोषम् ददति
Oh, Lord Śrīkṛṣṇa! When, oh, when, indeed, will those side-long glances from Your eyes blacker than the dark lotuses in the river Kālindī be bestowed on me? When will those glances with wave after wave of Your compassion be bestowed on me? When will Your glances, cool like the moon in the dark matted locks of Lord Śiva who opposed Cupid (Manmatha) be bestowed on me? When will the sonorous sportive strains of Your flute music give me the immersive experience of joy?
सुबन्तप्रक्रिया
कदा, वा, कमपि, किमपि = अव्ययानि
कालिन्दी-कुवलय-दल-श्यामल-तराः, करुणा-वीचि-निचिताः, कटाक्षाः, करुणा-वीचि-निचिताः कन्दर्प-प्रति-भट-जटा-चन्द्र-शिशिराः, मुरली-केलि-निनदाः = अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अन्तस्+तोषम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
लक्ष्यन्ते = लक्षँ दर्शनाङ्कनयोः, चुरादिः, भावकर्मणोः, आत्मनॅपदी, लट्, १.३
ददति = दा डुदाञ् दाने, जुहोत्यादिः, परस्मैपदी (उभय), लट्, १.३
समासाः, तद्धिताः, कृदन्ताः
कालिन्दी-कुवलय-दल-श्यामल-तराः = कालिन्द्याः कुवलयानि ६तत्, तेषां दलानि ६तत्, तेभ्यः श्यामलतराः(तद्धितः) ५तत्
करुणा-वीचि-निचिताः = करुणायाः वीचयः ६तत्, निचिताः वीचयः येषां ते (कटाक्षाः) समानाधिकरणबहुव्रीहिः
कन्दर्प-प्रति-भट-जटा-चन्द्र-शिशिराः = कन्दर्पं प्रतिभटति इति कन्दर्पप्रतिभटः उपपदसमासः, तस्य जटाः ६तत्, तेषु स्थितः चन्द्रः ७तत्, चन्द्र इव शिशिराः येषां ते उपमानबहुव्रीहिः
अन्तस्+तोषम् = अन्तः तोषः, तम् , क.धा
मुरली-केलि-निनदाः = कुरल्याः केलि निनदाः (क,धा), ६तत्
॥ हरिः ॐ तत् सत् ॥