॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
मम चेतसि स्फुरतु वल्लवीविभो-
र्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् ।
कमलावनेचरकलिन्दकन्यका-
कलहंसकण्ठकलकूजितादृतम् ॥१.१७॥
Meaning: May in my mind and heart manifest the endearing, sweet sound of pearl-adorned anklets of Śrī Kṛṣṇa, the beloved lord of the Gopīs, extolled by the cooing and gurgling of the swans swimming amidst lotuses in the Kālindī river!
व्याकरणांशाः |
मम चेतसि स्फुरतु वल्लवीविभो- | | | | | |
र्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् । | | | | | |
| | | | | |
कलहंसकण्ठकलकूजितादृतम् ॥१.१७॥ | | | | | |
मम, चेतसि, स्फुरतु, वल्लवी-विभोः, मणि-नूपुर-प्रणयि-मञ्जु-शिञ्जितम्, कमलावने-चर-कलिन्द-कन्यका-कलहंस-कण्ठ-कलकूजित+आदृतम् |
सन्धयः | | | | | |
वल्लवी-विभोः + मणि= ससजुषो रुः |
कलकूजित + आदृतम् = अकः सवर्णे दीर्घः |
आकाङ्क्षा-अन्वयः | | | | |
वल्लवी-विभोः मणि-नूपुर-प्रणयि-मञ्जु-शिञ्जितम् कमलावने-चर-कलिन्द-कन्यका-कलहंस-कण्ठ-कलकूजित+आदृतम् मम चेतसि स्फुरतु |
May in my mind and heart manifest the endearing, sweet sound of pearl-adorned anklets of Śrī Kṛṣṇa, the beloved lord of the Gopīs, extolled by the cooing and gurgling of the swans swimming amidst lotuses in the Kālindī river! |
सुबन्तप्रक्रिया | | | | | |
मम = युष्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः |
चेतसि = स्कारान्त चेतस्, नपुं, ७.१, ङि, वर्णमेलनम् |
वल्लवी-विभोः = उ, पुं, ६.१, ङस्,शेषो घ्यसखि, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
मणि-नूपुर-प्रणयि-मञ्जु-शिञ्जितम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
कमलावने-चर-कलिन्द-कन्यका-कलहंस-कण्ठ-कलकूजित+आदृतम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
तिङन्तप्रक्रिया | | | | |
स्फुरतु = स्फुरँ सञ्चलने, तुदादिः, परस्मैपदी, कर्तरि लोट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
वल्लवी-विभोः = वल्लवीनां विभुः, तस्य - ६तत् |
मणि-नूपुर-प्रणयि-मञ्जु-शिञ्जितम् = मणेः नूपुरम् ६तत्, प्रणयि नूपुरम् क.धा, तस्य मञ्जु शिञ्जितम् (क.धा) ६तत् |
कमलावने-चर-कलिन्द-कन्यका-कलहंस-कण्ठ-कलकूजित+आदृतम्= कमलस्य वनम् ६तत्, कमलवने चरत् (अलुक्, चरेष्टः ३.२.१६), कलिन्दस्य कन्यका ६तत्, तस्याः कलहंसाः ६तत्, तेषां कण्ठाः ६तत्, तैः कूजितम् ३तत्, तेन आदृतम् ६तत् |