Tuesday, February 11, 2025

Sri Krishna Karnamritam 1.15



 
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

अव्याजमञ्जुलमुखाम्बुजमुग्धभावैरास्वाद्यमाननिजवेणुविनोदनादम् ।   
आक्रीडतामरुणपादसरोरुहाभ्यामार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥ १.१५॥ 
Meaning: In my heart wetted wetted with love, may that Light sport with its impeccably sweet lotus face with innocent looks, with the most enjoyable music emanating from Its flute, with Its reddish lotus feet!

व्याकरणांशाः
अव्याजमञ्जुलमुखाम्बुजमुग्धभावैरास्वाद्यमाननिजवेणुविनोदनादम् ।
आक्रीडतामरुणपादसरोरुहाभ्यामार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥ १.१५॥
अव्याज-मञ्जुल-मुख+अम्बुअमुग्ध-भावैः, आस्वाद्यमान-निज-वेणु-विनोद-नादम्, आक्रीडताम्, अरुणपादस रोरुहाभ्याम्, आर्द्रे, मदीय-हृदये, भुवन+आर्द्रम्, ओजः
सन्धयः
मुख+अम्बुज, भुवन+आर्द्र = अकः सवर्णे दीर्घः
भावैः+आस्वाद्यमान= ससजुषो रुः
ओजः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
आर्द्रे मदीय-हृदये अव्याज-मञ्जुल-मुख+अम्बुअमुग्ध-भावैः आस्वाद्यमान-निज-वेणु-विनोद-नादम् अरुणपादस रोरुहाभ्याम् भुवन+आर्द्रम् ओजः आक्रीडताम्
In my heart wetted wetted with love, may that Light sport with its impeccably sweet lotus face with innocent looks, with the most enjoyable music emanating from Its flute, with Its reddish lotus feet!
सुबन्तप्रक्रिया
अव्याज-मञ्जुल-मुख+अम्बुअमुग्ध-भावैः = अ, पुं, ३.३, भिस्, अतो भिस ऐस्, व्सर्षोृद्धिरेचि, रुः, खरवसानयोर्विसर्जनीयः
आस्वाद्यमान-निज-वेणु-विनोद-नादम्, भुवन+आर्द्रम् = अ, नपुं, १.१, स्म्॒, आतोऽम्, अमि पूर्वः
अरुणपादसरोरुहाभ्याम्= अ, नपुं, ३.२, भ्याम्, सुपि च
आर्द्रे = अ, नपुं, ७.१, ङि, वर्णमेलनम्
मदीय-हृदये = अ, नपुं, ७.१, ङि, वर्णमेलनम्
ओजः = स्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
आक्रीडताम् = आङ्+ क्रीड्ँ विहारे, भ्वादिः, आत्मनेपदी (१.३.२१ 'आङ्' / 'अनु' / 'सम्' / 'परि' उपसर्गात् 'क्रीङ्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति), लोट्, १.१
समासाः, तद्धिताः, कृदन्ताः
अव्याज-मञ्जुल-मुख+अम्बुजमुग्ध-भावैः = न व्याजम् नञ्तत्, अव्याजं, मञ्जुलं मुखम् क.धा, अम्बुजमिव मुखम् उपमान क.धा, तस्य मुग्धः भावः (क.धा) ६तत्., तैः
आस्वाद्यमान-निज-वेणु-विनोद-नादम्= आस्वाद्यमानम् विनोदम् नादम् क.धा, निजः वेणुः क.धा, तस्य नादम् ६तत्, यस्य तत् बहुव्रीहिः
भुवन+आर्द्रम् = भुवनम् आर्द्रम् येन तत् ३. बहुव्रीहिः
अरुणपादसरोरुहाभ्याम्= अरुणे पादे क.धा, सरोरुहे इव पादे उपमान क.धा, ताभ्याम्
॥ हरिः ॐ तत् सत् ॥