॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
हृदये मम हृद्यविभ्रमाणां हृदयं हर्षविशाललोलनेत्रम् ।
तरुणं व्रजबालसुन्दरीणां तरलं किञ्चन धाम सन्निधत्ताम् ॥ १.११ ॥
Meaning: The One who is verily the throbbing heart of the young damsels delightedly sauntering in Vraja, the One whose eyes are darting with joy, who is so youthful, so inconstant and fickle, that mysterious One - may It make Its home in my heart!
व्याकरणांशाः |
हृदये मम हृद्यविभ्रमाणां हृदयं हर्षविशाललोलनेत्रम् । | | | | | |
तरुणं व्रजबालसुन्दरीणां तरलं किञ्चन धाम सन्निधत्ताम् ॥ १.११ ॥ | | | | | |
हृदये, मम, हृद्य-विभ्रमाणाम्, हृदयम्, हर्ष-विशाल-लोल-नेत्रम्, तरुणम्, व्रज-बाल-सुन्दरीणाम्, तरलम्, किञ्चन, धाम, सन्निधत्ताम् |
सन्धयः | | | | | |
हृद्य-विभ्रमाणाम्, हृदयम्, तरुणम्, व्रज-बाल-सुन्दरीणाम्, तरलम् = मोऽनुस्वारः |
आकाङ्क्षा-अन्वयः | | | | |
हृद्य-विभ्रमाणाम् व्रज-बाल-सुन्दरीणाम् हर्ष-विशाल-लोल-नेत्रम् तरुणम् तरलम् हृदयम् किञ्चन धाम मम हृदये सन्निधत्ताम् |
The One who is verily the throbbing heart of the delightfully sauntering young damsels of Vraja, whose eyes are darting with joy, who is so youthful, so inconstant and fickle, that mysterious One - may It make Its home in my heart! |
सुबन्तप्रक्रिया | | | | | |
हृदये = अ, नपुं, ७.१, ङि, आद्गुणः |
मम = युष्मद्, पुं, ६.१, ङस्, युषमस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः |
हृद्य-विभ्रमाणाम् = आ, स्त्री, ६.३, आम्, ह्रस्वनद्यापो नुट्, आट्कुप्वाङ्नुम्व्यवायेऽपि |
हृदयम् = अ, नपुं, १.१, अतोऽम्, अमि पूर्वः |
हर्ष-विशाल-लोल-नेत्रम् = = अ, नपुं, १.१, अतोऽम्, अमि पूर्वः |
तरुणम् = अ, नपुं, १.१, अतोऽम्, अमि पूर्वः |
व्रज-बाल-सुन्दरीणाम् = आ, स्त्री, ६.३, आम्, ह्रस्वनद्यापो नुट्, आट्कुप्वाङ्नुम्व्यवायेऽपि= |
तरलम् = अ, नपुं, १.१, अतोऽम्, अमि पूर्वः |
किञ्चन = अव्ययम् |
धाम = नकारन्त, नपुं, १.१, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य |
तिङन्तप्रक्रिया | | | | |
सन्निधत्ताम् = सम् + नि + डुधाञ् धारणपुषणयोः, जुहोत्यादिः, आत्मनेदपदी (उ॒), सकर्मकः, लोट् १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
हृद्य-विभ्रमाणाम् = हृद्याः (तद्धितः, यत्) विभ्रमाणाः स्त्री (शानच्, वि+भ्र) क.धा, तासाम् |
हर्ष-विशाल-लोल-नेत्रम् = = हर्षेण विशालम् ३तत्, विशालम् लोलम् नेत्रम् क.धा, यस्य तत् बहुव्रीहिः |
व्रज-बाल-सुन्दरीणाम् = व्रजस्य बालाः ६तत्, बालाः सुन्दर्यः क.धा, तासाम् |