Monday, February 17, 2025

Sri Krishna Karnamritam 1.21




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।  
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथोजल्पितम्    
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलदृशोः॥ १.२१ ॥ 
Meaning: We worship the Lord Śrīkṛṣṇa's form with that delicate smile stifled little by little with great difficulty, but His mood is exposed by the obvious spreading of thrill all over His body owing to the stream of amorous feelings welling up. At the same time, His ears are filled with beautiful conversations in whispers by Gopis of His sport, with eyes half-closed in His fake act of sleep!

व्याकरणांशाः
स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथोजल्पितम्
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलदृशोः॥ १.२१ ॥
स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्दस्मितम्, प्रेम+उद्+भेद-निरर्गल-प्रसृमर-प्रव्यक्त-रोम+उद्गमम्, श्रोतृ-श्रोत्र-मनोहर-व्रज-वधू-लीला-मिथस्+जल्पितम्, मिथ्या-स्वापम्, उपास्महे, भगवतः, क्रीडा-निमील-दृशोः
सन्धयः
प्रेम+उद्, रोम+उद्गमम्= आद्गुणः
मिथस्+जल्पितम् = ससजुषो रुः, हशि च, आद्गुणः
आकाङ्क्षा-अन्वयः
भगवतः स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्दस्मितम् प्रेम+उद्+भेद-निरर्गल-प्रसृमर-प्रव्यक्त-रोम+उद्गमम् श्रोतृ-श्रोत्र-मनोहर-व्रज-वधू-लीला-मिथस्+जल्पितम् क्रीडा-निमील-दृशोः मिथ्या-स्वापम् (रूपम्) उपास्महे
We worship the Lord Śrīkṛṣṇa's form with that delicate smile stifled little by little with great difficulty, but His mood exposed by the obvious spreading of thrill all over His body owing to the stream of amorous feelings welling up while His ears are filled with beautiful conversations in whispers by Gopis of His sport, with eyes half-closed inHis fake act of sleep!
सुबन्तप्रक्रिया
स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्दस्मितम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
प्रेम+उद्+भेद-निरर्गल-प्रसृमर-प्रव्यक्त-रोम+उद्गमम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
श्रोतृ-श्रोत्र-मनोहर-व्रज-वधू-लीला-मिथस्+जल्पितम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
मिथ्या-स्वापम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
भगवतः = त्, पुं, ६.१, ङस्, वर्णमेलनम्
क्रीडा-निमील-दृशोः = श्, नप्ं, ६.२, ओस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
उपास्महे = उप+आसँ उपवेशने, अदादिः, आत्मनेपदी, लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्दस्मितम् = स्तोकम् निरुध्यमानम् (नि+रुणद्धि, शानच् कृ १.१) क.धा, मृदुलं, प्रस्यन्दि मन्दम् स्मितम् क.धा, यस्य तस्य रूपम् बहुव्रीहिः, ६तत्
प्रेम+उद्+भेद-निरर्गल-प्रसृमर-प्रव्यक्त-रोम+उद्गमम् =प्रेमस्य उद्भेम् ६तत्, तेन ३तत् निरर्गलम् प्रसृमरम् प्रव्यक्तम् रोमस्य उद्गमम्(६तत्), क.धा, यस्य तस्य रूपम् बहुव्रीहिः, ६तत्
श्रोतृ-श्रोत्र-मनोहर-व्रज-वधू-लीला-मिथस्+जल्पितम् = श्रोतुः श्रोत्रे ६तत्, तयोः मनोहरम् व्रजस्य वधूनां (६तत्), जल्पितम् ६तत्, लीलायाः ६तत् मिथस् जल्पितम् क.धा, यस्य तस्य रूपम् बहुव्रीहिः, ६तत्
मिथ्या-स्वापम् = मिथ्या (अव्ययम्) स्वापः क.धा, यस्य तस्य रूपम् बहुव्रीहिः, ६तत्
क्रीडा-निमील-दृशोः = क्रीडया निमीलितौ ३तत्, दृशौ क.धा, तयोः
॥ हरिः ॐ तत् सत् ॥