Friday, February 14, 2025

Sri Krishna Karnamritam 1.18





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

तरुणारुणकरुणामयविपुलायतनयनं  
कमलाकुचकलशीभरविपुलीकृतपुलकम् ।
मुरलीरवतरलीकृतमुनिमानसनलिनं  
मम खेलति मदचेतसि मधुराधरममृतम् ॥१.१८॥  
Meaning: In my heart and soul intoxicated with love sports that One, wide-eyed with a delightful light reddish hue filled with compassion, the One who is thrilled all over by the beauteous bountiful bosom of His beloved Devi Kamala(=Rukmiṇī/Rādhā), the One who blooms like the blue lotus in the minds of ascetics melted by His flute music, the One with delightful lips, the One who is Eternal Bliss!
व्याकरणांशाः
तरुणारुणकरुणामयविपुलायतनयनं
कमलाकुचकलशीभरविपुलीकृतपुलकम् ।
मुरलीरवतरलीकृतमुनिमानसनलिनं
मम खेलति मदचेतसि मधुराधरममृतम् ॥१.१८॥
तरुण+अरुण-करुणामय-विपुल+आयत-नयनम्, कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम्, मुरली-रव-तरलीकृत-मुनिमानस-नलिनम्, मम, खेलति, मद-चेतसि, मधुर+अधरम्, अमृतम्
सन्धयः
तरुण+अरुण, विपुल+आयत, मधुर+अधरम् = अकः सवर्णे दीर्घः
नयनम्, पुलकम्, नलिनम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
मम मद-चेतसि तरुण+अरुण-करुणामय-विपुल+आयत-नयनम् कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम् मुरली-रव-तरलीकृत-मुनिमानस-नलिनम् मधुर+अधरम् अमृतम् खेलति
In my heart and soul intoxicated with love sports that One, wide-eyed with a delightful light reddish hue filled with compassion, the One who is thrilled all over by the beauteous bountiful bosom of His beloved Devi Kamala(=Rukmiṇī/Rādhā), the One who blooms like the blue lotus in the minds of ascetics melted by His flute music, the One with delightful lips, the One who is Eternal Bliss!
सुबन्तप्रक्रिया
तरुण+अरुण-करुणामय-विपुल+आयत-नयनम् = अ, नपुं, १.१, अतोऽम्, अमि पूर्वः
कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः
मुरली-रव-तरलीकृत-मुनिमानस-नलिनम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः
मम = अस्मद्, पुं, ६.१, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
मद-चेतसि = स्, नपुं, ७.१, ङि, वर्णमेलनम्
मधुर+अधरम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः
अमृतम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
खेलति = खेऌँ चलने, भ्वादिः, परस्मैपदी, अकर्मकः, सेट्, कर्तरि, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
तरुण+अरुण-करुणामय-विपुल+आयत-नयनम् = तरुणम् अरुणम् क.धा, अरुणम् करुणामयम् (मयट् तद्धितम्) विपुलम्, आयतम् नयनम् क.धा, यस्य तत्, बहुव्रीहिः
कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम्= कमलायाः कुचः ६तत्, कुचः कलशी इव उपमान क.धा, भरः कुचः क.धा, तेन विपुलीकृतम् ३तत्, पुलकम्, क.धा,
मुरली-रव-तरलीकृत-मुनिमानस-नलिनम्= मुरलेः रवः ६तत्, तेन तरलीकृतम् ३तत्, मुनेः मानसम् ६तत्, कृतम् मानसम् क.धा, तस्य नलिनम् ६तत्
मधुर+अधरम्= मधुरम् अधरम् क.धा, यस्य तत्, उपमानबहुव्रीहिः
अमृतम् = न मृतम् नञ् तत्पुरुषः

॥ हरिः ॐ तत् सत् ॥