Tuesday, February 4, 2025

Sri Krishna Karnamritam 1.09


  
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलं  
फुल्लपाटलपाटलीपरिवादिपादसरोरुहम् ।   
उल्लसनम्धुराधराद्युतिमञ्जरीसरसाननं 
वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥ १.०९ ॥ 
Meaning: I seek refuge in Him who is engrossed in the music of the flute held in His lotus-like hands that are of the reddish hue of tender sprouts; whose feet are like lotuses that rival in pinkishness the blooming roses; whose lips quiver delightfully and light up His charming face; whose chest sports the red vermilion smeared by contact with the copious breasts of the Vraja damsels.

व्याकरणांशाः
पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलं
फुल्लपाटलपाटलीपरिवादिपादसरोरुहम् ।
उल्लसन्म्धुराधराद्युतिमञ्जरीसरसाननं
वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥ १.०९ ॥
पल्लव+अरुण-पाणि-पङ्कज-सङ्गि-वेणु-रव+आकुलम्, फुल्ल-पाटल-पाटली-परिवादि-पाद-सरस्+रुहम्, उल्लसत्+मधुर+अधर-द्युति-मञ्जरी-सरस+आननम्, वल्लवी-कुच-कुम्भ-कुङ्कुम-पङ्किलम्, प्रभुम्, आश्रये
सन्धयः
पल्लव+अरुण, रव+आकुलम्, मधुर+अधर, सरस+आननम् = अकः सवर्णे दीर्घः
सरस्+रुहम् = ससजुषो रुः, हशि च, आद्गुणः
उल्लसत्+मधुर= झलां जशोऽन्ते, यरोऽनुनासिकोऽनुनासिके वा
कुम्+कुम = मोऽनुस्वारः, अनुस्वारस्य ययि परसवर्णः
आकाङ्क्षा-अन्वयः
पल्लव+अरुण-पाणि-पङ्कज-सङ्गि-वेणु-रव+आकुलम् फुल्ल-पाटल-पाटली-परिवादि-पाद-सरस्+ऊरुहम् उल्लसत्+मधुर+अधर-द्युति-मञ्जरी-सरस+आननम् वल्लवी-कुच-कुम्भ-कुङ्कुम-पङ्किलम् प्रभुम् आश्रये
I seek refuge in Him who is engrossed in the music of the flute held in His lotus-like hands that are of reddish hue of tender sprouts; whose feet are like lotuses that rival in pinkishness the blooming roses; whose lips quiver delightfully and light up His charming face; whose chest sports the red vermilion smeared by contact with the copious breasts of the Vraja damsels.
सुबन्तप्रक्रिया
पल्लव+अरुण-पाणि-पङ्कज-सङ्गि-वेणु-रव+आकुलम्, फुल्ल-पाटल-पाटली-परिवादि-पाद-सरस्+रुहम्, उल्लसत्+मधुर+अधर-द्युति-मञ्जरी-सरस+आननम्, वल्लवी-कुच-कुम्भ-कुङ्कुम-पङ्किलम् = अकारान्त पुं, २.१, अम्, अमि पूर्वः
प्रभुम् = उ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
आश्रये = आङ्+ श्रिञ् सेवायाम्, भ्वादिः, आत्मनेपदी (उभय), लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
पल्लव+अरुण-पाणि-पङ्कज-सङ्गि-वेणु-रव+आकुलम् = पल्लव इव अरुणः पाणिः उ.क.धा. पङ्कजमिव पाणिः उ. क.धा, पाणौ सङ्गिवेणुः ७तत्, वेणोः रवः ६तत्. तस्य आकुलम् यस्य बहुव्रीहिः, तम्
फुल्ल-पाटल-पाटली-परिवादि-पाद-सरस्+रुहम्= फुल्लम् पाटलम् क.धा, यस्य पाटली ६तत्, तस्य परिवादी पादः क.धा/६तत्, सरोरुहमिव पादः यस्य सः उपमान बहुव्रीहिः, तम्
उल्लसत्+मधुर+अधर-द्युति-मञ्जरी-सरस+आननम् = उल्लसत् मधुरम् अधरम् क.धा, तस्य द्युतिः ६तत्. तस्य मञ्जरी ६तत्, मञ्जरी इव सरसं आननम् (क.धा) यस्य तम् उपमान बहुव्रीहिः
वल्लवी-कुच-कुम्भ-कुङ्कुम-पङ्किलम् = वल्लवीनां कुम्भ इव कुचम् (क.धा) ६तत्, तस्य कुङ्कुमम् ६तत्, तेन पङ्किलं कृतम् वक्षः ३तत्, यस्य तम् बहुव्रीहिः
पङ्किल= इयच् तद्धितः - तस्यास्तीति

॥ हरिः ॐ तत् सत् ॥