Sunday, February 9, 2025

Sri Krishna Karnamritam 1.13



  
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

प्रणयपरिणताभ्यां प्राभवाल्लम्बनाभ्यां
प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् । 
प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां
प्रभवतु हृदये नः प्राणनाथः किशोरः ॥ १. १३ ॥            
Meaning: (With) those eyes lowered in utter love, the very sources of His eternal power over us, dancing every moment, looking new every day, seeming to widen every moment, showering eternal bounties on us, (with) those eyes, may the tender child, over most beloved Śrī Kṛṣṇa, incarnate in our hearts!
व्याकरणांशाः
प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां
प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।
प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां
प्रभवतु हृदये नः प्राणनाथः किशोरः ॥ १. १३ ॥
प्रणय-परिणताभ्याम्, प्राभव+आलम्बनाभ्याम्, प्रति-पद-ललिताभ्याम्, प्रति+अहम्, नूतनाभ्याम्, प्रति-मुहुः+अधिकाभ्याम्, प्रस्नुवत्+लोचनाभ्याम्, प्रभवतु, हृदये, नः, किशोरः प्राणनाथः ।
सन्धयः
...भ्याम्= मोऽनुस्वारः
प्राभव+आलम्बनाभ्याम्= अकः सवर्णे दीर्घः
प्रति+अहम् = इको यणचि
मुहुः+अधिकाभ्याम् = ससजुषो रुः
प्रस्नुवत्+लोचनाभ्याम् = तोर्लि
नः, किशोरः प्राणनाथः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च
आकाङ्क्षा-अन्वयः
प्रणय-परिणताभ्याम् प्राभव+आलम्बनाभ्याम् प्रति-पद-ललिताभ्याम् प्रति+अहम् नूतनाभ्याम् प्रति-मुहुः+अधिकाभ्याम् प्रस्नुवत्+लोचनाभ्याम् (सह) प्राणनाथः किशोरः नः हृदये प्रभवतु ।
(With) those eyes lowered in utter love, the very sources of His eternal power over us, dancing every moment, looking new every day, seeming to widen every moment, showering eternal bounties on us, (with) those eyes, may the tender child, over most beloved Śrī Kṛṣṇa, incarnate in our hearts!
सुबन्तप्रक्रिया
प्रणय-परिणताभ्याम् = अ, नपुं, ३.२, भ्याम्, सुपि च
प्राभव+आलम्बनाभ्याम् == अ, नपुं, ३.२, भ्याम्, सुपि च
प्रति-पद-ललिताभ्याम् == अ, नपुं, ३.२, भ्याम्, सुपि च
प्रति+अहम् = अव्ययम्
नूतनाभ्याम् = = अ, नपुं, ३.२, भ्याम्, सुपि च
प्रति-मुहुः = अव्ययम्
अधिकाभ्याम् = अ, नपुं, ३.२, भ्याम्, सुपि च
प्रस्नुवत्+लोचनाभ्याम् = अ, नपुं, ३.२, भ्याम्, सुपि च
हृदये = अ, नपुं, ७.१, ङि, वर्णमेलनम्
नः = अस्मद्, पुं, ६.३, आम्, षष्ठीचतुर्थी द्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्नसौ
प्राणनाथः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
किशोरः == अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
प्रभवतु = प्र+भू सत्तयाम्, भ्वादिः, परस्मैपदी, अकर्मकः, लोट्, १.१
समासाः, तद्धिताः, कृदन्ताः
प्रणय-परिणताभ्याम् = प्रणयेन परिणते लोचने, ताभ्याम्, ३तत्
प्राभव+आलम्बनाभ्याम् = प्रभुभावः प्राभवः (तद्धितः) तस्य आलम्बनम् ताभ्याम्, ६तत्
प्रति-पद-ललिताभ्याम् = पदम् पदम् प्रतिपदम् अव्ययीभावः, प्रतिपदम् ललिते लोचने, ताभ्याम् कर्मधारयः
प्रति+अहम् नूतनाभ्याम्= अहम् अहम् प्रत्यहम् अव्ययीभावः, प्रत्यहम् नूतने लोचने, ताभ्याम्, कर्मधारयः
प्रति-मुहुः= मुहुः मुहुः प्रतिमुहुः = अव्ययीभावः
प्रस्नुवत् = प्र+सवति, तस्य भावः मतुप् (तद्धितः)
प्राणनाथः = प्राणस्य नाथः ६तत्
॥ हरिः ॐ तत् सत् ॥