Thursday, February 20, 2025

Sri Krishna Karnamritam 1.24





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणः शिशुर्दृशोः । 
युगलं विगलन्मधुद्रव-
स्मितमुद्रामृदुना मुखेन्दुना ॥१.२४॥  
Meaning: Oh, when indeed will that tender child, the Lord Śrīkṛṣṇa, wearing the peacock feather crown, oozing honeyed sweetness with delicate smiles from His moon-like face, cool like winter's dew our pairs of eyes?

व्याकरणांशाः
शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणः शिशुर्दृशोः ।
युगलं विगलन्मधुद्रव-
स्मितमुद्रामृदुना मुखेन्दुना ॥१.२४॥
शिशिरीकुरुते, कदा, नु, नः, शिखि-पिञ्छ+आभरणः, शिशुः, दृशोः, युगलम्, विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना, मुख+इन्दुना
सन्धयः
नः, शिखि-पिञ्छ+आभरणः, दृशोः= ससजुषो रुः & खरवसानयोर्विसर्जनीयः
पिञ्छ+आभरणः= अकः सवर्णे दीर्घः
शिशुः+दृशोः = ससजुषो रुः
विगलत्+मधुद्रव= झलां जशोऽन्ते & यरोऽनुनासिकेऽनुनासिको वा
मुख+इन्दुना = आद्गुणः
आकाङ्क्षा-अन्वयः
कदा नु नः दृशोः युगलम् शिखि-पिञ्छ+आभरणः शिशुः विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना मुख+इन्दुना शिशिरीकुरुते ?
Oh, when indeed will that tender child, the Lord Śrīkṛṣṇa, wearing the peacock feather crown, oozing honeyed sweetness with delicate smiles from His moon-like face, cool like winter's dew our pairs of eyes?
सुबन्तप्रक्रिया
कदा = अव्ययम्
नु = अव्ययम्
नः = अस्मद्, पुं, ६.३, आम्, युषम्दस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्न्नसौ स्तः
शिखि-पिञ्छ+आभरणः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
शिशुः= उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
दृशोः = श्, मपुं, ६.२, ओस्, वर्णमेलनम्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
युगलम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना= उ, पुं, ३.१, टा, आङो नास्त्रियाम्
मुख+इन्दुना= उ, पुं, ३.१, टा, आङो नास्त्रियाम्
तिङन्तप्रक्रिया
शिशिरीकुरुते = नामधातुः, डुकृञ् करणे, तनादिः, आत्मनेपदी (उभय), लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
शिखि-पिञ्छ+आभरणः= शिखेः पिन्छः ६तत्, शिखिपिञ्छः आभरणः यस्य सः समानाधिकरणबहुव्रीहिः
विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना= मधुद्रवः विगलितः येन सः, ३बहुव्रीहिः, स्मिता मुद्रा यस्य सः बहुव्रीहिः, विगलत्मधुद्रवः च स्मितमुद्रा च यस्य सः बहुव्रीहिः, सः मृदुः क.धा, तेन
मुख+इन्दुना= मुखं इन्दुरिव उपमानोत्तरपदम्, तेन
॥ हरिः ॐ तत् सत् ॥