॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
माधुर्यवारिधिमदान्धतरङ्गभङ्गी-
शृङ्गारसंकलितशीतकिशोरवेषम् ।
आमन्दहासललिताननचन्द्रबिम्ब-
मानन्दसंप्लवमनुप्लवतां मनो मे ॥ १.१४ ॥
Meaning: Let my mind immerse itself and repeatedly drown in the flood of bliss stirred up by Śrī Kṛṣṇa whose gentle smile is like the tender moon and causes a series of mighty, crazy waves in the ocean of beauty by His bewitching beauteous cooling boyish appearance.
व्याकरणांशाः |
माधुर्यवारिधिमदान्धतरङ्गभङ्गी- | | | | | |
शृङ्गारसंकलितशीतकिशोरवेषम् । | | | | | |
आमन्दहासललिताननचन्द्रबिम्ब- | | | | | |
मानन्दसंप्लवमनुप्लवतां मनो मे ॥ १.१४ ॥ | | | | | |
माधुर्य-वारिधि-मदान्ध-तरङ्ग-भङ्गी-शृङ्गार-संकलित-शीत-किशोर-वेषम्, आमन्दहास-ललितानन-चन्द्र-बिम्बम्, आनन्दसंप्लवम्, अनुप्लवताम्, मनः, मे |
सन्धयः | | | | | |
ललित+आनन = अकः सवर्णे दीर्घः |
मनो मे = ससजुषो रुः, हशि च, आद्गुणः |
अनुप्लवताम् = मोऽनुस्वारः |
आकाङ्क्षा-अन्वयः | | | | |
मे मनः माधुर्य-वारिधि-मदान्ध-तरङ्ग-भङ्गी-शृङ्गार-संकलित-शीत-किशोर-वेषम् आमन्दहास-ललितानन-चन्द्र-बिम्बम् आनन्दसंप्लवम् अनुप्लवताम् |
Let my mind immerse itself and drown repeatedly in the flood of bliss stirred up by Śrī Kṛṣṇa whose gentle smile is like the tender moon and causes a series of mighty, crazy waves in the ocean of beauty by His betwitching beauteous cooling boyish appearance. |
सुबन्तप्रक्रिया | | | | | |
माधुर्य-वारिधि-मदान्ध-तरङ्ग-भङ्गी-शृङ्गार-संकलित-शीत-किशोर-वेषम् = अ, पुं, २.१, अम्, अमि पूर्वः |
आमन्दहास-ललितानन-चन्द्र-बिम्बम् = अ, पुं, २.१, अम्, अमि पूर्वः |
आनन्दसंप्लवम् = अ, पुं, २.१, अम्, अमि पूर्वः |
मनः = स्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, ससजुश्ढो रुः, खरवसानयोर्विसर्जनीयः |
मे = अस्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य (अन्वादेशे) |
तिङन्तप्रक्रिया | | | | |
अनुप्लवताम् = अनु+प्लुङ् गतौ, भ्वादिः, आत्मनेपदी, लोट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
माधुर्य-वारिधि-मदान्ध-तरङ्ग-भङ्गी-शृङ्गार-संकलित-शीत-किशोर-वेषम् = माधुर्यमेव वारिधिः अवधारणाकर्मधारयः, तस्य- मदान्धः तरङ्गः क.धा, तस्य भङ्गी, ६तत्- ६तत् । शृङ्गारेण स्ंकलितम् वेषम् ३तत्, शीतम् किशोरम् वेषम् क.धा, भङ्गी इव ... वेषः, तम् उपमानपूर्वपद क.धा |
आमन्दहास-ललितानन-चन्द्र-बिम्बम् = चन्द्रस्य बिम्बः ६तत्, आमन्दहासम् ललितम् आननम् यस्य सः उपमानबहुव्रीहिः, आननः चन्द्रबिम्बः क.धा, तम् |
आनन्दसंप्लवम् = आनन्दस्य संप्लवम् ६तत्, तम् |