Thursday, February 6, 2025

Sri Krishna Karnamritam 1.10



  
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

अपाङ्गरेखाभिरभङ्गुराभिरनङ्गरेखारसरञ्जिताभिः ।    
अनुक्षणं वल्लवसुन्दरीभिरभ्यर्च्यमानं विभुमाश्रयामः ॥ १.१०॥  
Meaning: We seek refuge in that Immanent Supreme Person who is every moment worshipped ardently by the Gopis of Vraja who are looking upon Him with incessant, undiminished, love-decorated side glances!

व्याकरणांशाः
अपाङ्गरेखाभिरभङ्गुराभिरनङ्गरेखारसरञ्जिताभिः ।
अनुक्षणं वल्लवसुन्दरीभिरभ्यर्च्यमानं विभुमाश्रयामः ॥ १.१०॥
अपाङ्ग-रेखाभिः, अभङ्गुराभिः, अनङ्ग-रेखा-रस-रञ्जिताभिः, अनुक्षणम्, वल्लव-सुन्दरीभिः, अभ्यर्च्यमानम्, विभुम्, आश्रयामः ॥ १.१०॥
सन्धयः
अपाङ्ग-रेखाभिः, अभङ्गुराभिः, वल्लव-सुन्दरीभिः = ससजुषो रुः
रञ्जिताभिः, आश्रयामः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अनुक्षणम्, अभ्यर्च्यमानम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
अपाङ्ग-रेखाभिः अभङ्गुराभिः अनङ्ग-रेखा-रस-रञ्जिताभिः अनुक्षणम् वल्लव-सुन्दरीभिः अभ्यर्च्यमानम् विभुम् आश्रयामः
We seek refuge in that Immanent Supreme Person who is every moment worshipped ardently by the Gopis of Vraja who are looking upon Him with incessant, undiminished, love-decorated side glances!
सुबन्तप्रक्रिया
अपाङ्ग-रेखाभिः, अभङ्गुराभिः, अनङ्ग-रेखा-रस-रञ्जिताभिः = आ, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अनुक्षणम् = अव्ययम्
वल्लव-सुन्दरीभिः = ई, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अभ्यर्च्यमानम् = अ, पुं, २.१, अम्, अमि पूर्वः
विभुम् = उ, पुं, २.१, अम्, अमि पुर्वः
तिङन्तप्रक्रिया
आश्रयामः = आङ्+श्रिञ् सेवायाम्,भ्वादिः, परस्मैपदी (उभय), सकर्मकः, लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
अपाङ्ग-रेखाभिः = अपाङ्गा रेखा क.धा, यासां ताभिः
अभङ्गुराभिः = न भङ्गुरा, ताभिः नञ्तत्पुरुषः
अनङ्ग-रेखा-रस-रञ्जिताभिः = अनङ्गस्य रेखाः ६तत्, तासां रसः ६तत्, तेन रञ्जिताः ३तत्, ताभिः
अनुक्षणम् = क्षणं क्षणम्, अव्ययीभावः
वल्लव-सुन्दरीभिः= वल्लवाः सुन्दर्यः क. धा, ताभिः
अभ्यर्च्यमानम्= अभि+अर्च्यते शानच्, तम्

॥ हरिः ॐ तत् सत् ॥