Thursday, August 28, 2025
Gaņeśa - The wonderful god!
Wednesday, August 27, 2025
श्रीगणेशपञ्चरत्नम् - १
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥
Friday, August 22, 2025
Sri Krishna Karnamritam 2.108

व्याकरणांशाः | |||||
कस्तूरीतिलकं ललाटफलके वक्षस्स्थले कौस्थुभं | |||||
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । | |||||
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं | |||||
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ २.१०९ ॥ | |||||
कस्तूरी-तिलकम्, ललाट-फलके, वक्षः-स्थले, कौस्थुभम्, नास+अग्रे, नव-मौक्तिकम्, कर-तले, वेणुम्, करे, कङ्कणम्, सर्वाङ्गे, हरिचन्दनम्, च, कलयन्, कण्ठे, च, मुक्तावलिम्, गोपस्त्री-परि-वेष्टितः, विजयते, गोपाल-चूडामणिः | |||||
सन्धयः | |||||
कस्तूरी-तिलकम्, कौस्थुभम्, नव-मौक्तिकम्, वेणुम्, हरिचन्दनम्, मुक्तावलिम् = मोऽनुस्वारः | |||||
वक्षः-स्थले = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, वा शरि | |||||
गोपस्त्री-परि-वेष्टितः + विजयते = ससजुषो रुः, हशि च, आद्गुणः | |||||
गोपाल-चूडामणिः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः | |||||
आकाङ्क्षा-अन्वयः | |||||
गोपाल-चूडामणिः कस्तूरी-तिलकम् ललाट-फलके वक्षः-स्थले कौस्थुभम् नास+अग्रे नव-मौक्तिकम् कर-तले वेणुम् करे कङ्कणम् सर्वाङ्गे हरिचन्दनम् च कण्ठे च मुक्तावलिम् कलयन् गोपस्त्री-परि-वेष्टितः विजयते | |||||
That crest-jewel of cowherds, Śrīkṛṣṇa, sporting the Kastūrītilaka on his forehead, Kaustubha gem on his chest, the pearl ornamemnt at the end of his nose (an ancient adornment), a bamboo flute in his hand, bracelets on his wrists, anointed with red sandal paste all over, a beautiful pearl necklace around his neck, and surrounded by Gopīs is resplendent! | |||||
सुबन्तप्रक्रिया | |||||
कस्तूरी-तिलकम् = अकारान्त पुं, २.१ अम्, अमि पूर्वः | |||||
ललाट-फलके = अकारान्त पुं, ७.१, ङि, आद्गुणः | |||||
वक्षः-स्थले= अकारान्त नपुं, ७.१, ङि, आद्गुणः | |||||
कौस्थुभम् = अकारान्त पुं, २.१ अम्, अमि पूर्वः | |||||
नास+अग्रे= अकारान्त पुं, ७.१, ङि, आद्गुणः | |||||
नव-मौक्तिकम् = अकारान्त नपुं, २.१ अम्, अमि पूर्वः | |||||
कर-तले= अकारान्त नपुं, ७.१, ङि, आद्गुणः | |||||
वेणुम् = उकारान्त पुं, २.१ अम्, अमि पूर्वः | |||||
करे= अकारान्त पुं, ७.१, ङि, आद्गुणः | |||||
कङ्कणम् = अकारान्त नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः | |||||
सर्वाङ्गे= अकारान्त पुं, ७.१, ङि, आद्गुणः | |||||
हरिचन्दनम् = अकारान्त नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः | |||||
च = अव्ययम् | |||||
कण्ठे= अकारान्त पुं, ७.१, ङि, आद्गुणः | |||||
मुक्तावलिम्= इकारान्त स्त्री, २.१ अम्, अमि पूर्वः | |||||
गोपस्त्री-परि-वेष्टितः = अकारान्त, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः | |||||
कलयन् = तकारान्त पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याभ्यो दीर्घात्सुतिस्यपृक्तं हल्, संयोगान्तस्य लोपः | |||||
गोपाल-चूडामणिः= इकारान्त, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः | |||||
तिङन्तप्रक्रिया | |||||
विजयते = वि+ जि जये भ्वादिः, अकर्मकः, अनिट्, परस्मैपदी-> आत्मनेपदी वि उपसर्गयोगे, लट्, १.१ | |||||
समासाः, तद्धिताः, कृदन्ताः | |||||
कलयन् = कल गतौ, सङ्ख्याने च, चुरादिः, शानच् कृदन्तः, प्रथमा विभक्तिः, एकवचनम्, कलयत्. | |||||
कस्तूरी-तिलकम् = कस्तूर्याः तिलकः, तम्, ६तत् | |||||
ललाट-फलके = ललाटस्य फलकः, तस्मिन् ६तत् | |||||
वक्षः-स्थले= वक्षसः स्थलं, तस्मिन्, ६तत् | |||||
नास+अग्रे= नासस्य अग्रः, तस्मिन् ६तत् | |||||
नव-मौक्तिकम् = नवं, मौक्तिकम्, तम्, कर्मधारयः | |||||
कर-तले= करस्य तलम्, तस्मिन्, ६तत् | |||||
गोपस्त्रीपरिवेष्टितः = गोपानां स्त्रियः ६तत्, ताभिः परिवेष्टितः ३तत् |
PS; Attended a beautiful dance programme at BIC called Deva Nartana. The Dashavataram dance was concluded by the four dancers dancing together to this shloka! Hare Krishna!
Thursday, August 21, 2025
My Sanskrit Essay on Mysore
Guided by my teacher, Dr. Sowmya Krishnapur, I wrote this essay 🙏
मैसूरु नगरी
भवन्तः मैसूरुनगरीं कच्चित् गतवन्तः ? भारते एका अतिसुन्दरी नगरी सांस्कृतिकनिधिः च द्रष्टव्या चेत् मैसूरुनगरीं गत्वा तस्याः रमणीयतां राजवैभवं च पश्यन्तु । मैसूरुराज-परम्परा विचक्षणराज्यनिर्वहणनिपुणा उदारा कलोपासिका च आसीत् ।
मैसूरुनगर्यां चामुण्डीदेव्याः मन्दिरं पर्वतोपरि अस्ति । सा देवी अस्मान् सदा पालयति । मैसूरुराजभवनानि उद्यानानि मृगालयं च विश्वविख्यातानि । प्रतिवर्षे नवरात्र-उत्सव-काले दसरा नाम पर्वणः कार्यक्रमाः महत्या शोभया आचर्यन्ते । अन्तिमदिने विजयदशम्यां राजहस्तिवाहिनी देवी चामुण्डी राजवीथ्यां संसृत्य शमीवृक्ष-उद्याने जनानां पूजां स्वीकरोति ।
मैसूरुविश्वविद्यानिलयः सर्वलोकमान्यः यतः अनेकाः प्रौढविद्वांसः तत्र अपाठयन् । तत्रस्तः शोधनिलयः बहुशतमानपूर्वस्य मौर्यसाम्राज्यमन्त्रिणः कौटिल्यस्य अर्थशास्त्रग्रन्थम् आविष्कृत्य लोकार्पणं अकरोत् । भारतस्य पुरातन-इतिहासग्रन्थाः वेदशास्त्रग्रन्थाः सर्वे तत्र सम्यक् परिष्कृताः प्रकाशिताः च ।
एशियाद्यन्ते प्रप्रथमविद्युद्दीपव्यवस्था , भारतस्य आकाशवाणी नाम प्रथमरेडियो , कार्मिकाणां कृते अग्रेसरा उद्योगनीतिव्यवस्था निवृत्तिवेतनव्यवस्था इत्यादि सर्वं मैसूरुनगर्यां एव प्रथमतः अभवन् । तथैव मैसूरुनगरी भारतस्य शिखरप्राया नगरी वर्तते सदा ।
Monday, August 18, 2025
Beauty and Joy
सच्चिदानन्दः
Monday, August 11, 2025
Millet Magic
(Click to enlarge)
From this data, it is obvious the best choice is Barnyard Millet for me.
Availability and pricing:
Swiggy Instamart
Manna Foxtail Millet 500gm INR 129.-
Manna Barnyard Millet 500gm INR 135.-
Organic Little Millet 500 gm INR 82.-
Manna Kodo Millet 500gm INR 135.-
Manna Brown Top Millet 500gm INR 160.-
Organic Mandya (+919606001574)
Foxtail Millet 1kg INR 210.-
Barnyard Millet 1 kg INR 260.-
Little Millet 1 kg INR 216.-
Kodo Millet 1kg INR 200.-
Brown top millet 1kg INR 210.-
Go with the Millet Magic!