Sunday, April 14, 2024

Sri Mukundamala - Conclusion

 


॥ ॐ नमो भगवते वासुदेवाय ॥

यस्य प्रियौ स्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशरावभूतां
तेनाम्बुजाक्षचरणामुब्जषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥४०॥

Translation: This devotional poem Mukundamālā has been composed by the King Kulaśekhara whose had two friends Padma and Śara, great Vedic scholars, exemplary Brahmins, and accomplished poets.
Notes; Even in appending his own name and identity, the poet is so humble that he mentions his two friends, exalted Brahmin scholars. Thereby he is indicating that although a king, he also cultivated the company of the devout and the scholarly. That explains the great personality of Rājā Kulaśekhara who has composed this superb poem of ardent devotion and spiritual thought.

Happy Vishu Yugaadi to all!



व्याकरणांशाः
यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशरावभूतां
तेनाम्बुजाक्षचरणामुब्जषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥४०॥
यस्य, प्रियौ, श्रुति-धरौ, कवि-लोक-वीरौ, मित्रे, द्वि-जन्म-वर-पद्म-शरौ, अभूताम्, तेन, अम्बुज-अक्ष-चरण-अम्बुजषट्पदेन, राज्ञा, कृता, कृतिः, इयम्, कुलशेखरेण
सन्धयः
पद्म-शरौ+अभूताम्= एचोऽयवायावः
अभूताम्, इयम्= मोऽनुस्वारः
तेन+अम्बुज+अक्ष,-चरण+अम्बुज= अकः सवर्ने दीर्घः
कृतिः+इयम्= ससजुषो रुः
आकाङ्क्षा-अन्वयः
यस्य प्रियौ श्रुति-धरौ कवि-लोक-वीरौ मित्रे द्वि-जन्म-वर-पद्म-शरौ अभूताम् तेन अम्बुज-अक्ष-चरण-अम्बुजषट्पदेन राज्ञा कुलशेखरेण इयम् कृतिः कृता
This devotional poem Mukundamālā has been composed by the King Kulaśekhara whose had two friends Padma and Śara, great Vedic scholars, exemplary Brahmins, and accomplished poets.
सुबन्तप्रक्रिया
यस्य = यद्, पुं, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः
प्रियौ, स्रुति-धरौ, कवि-लोक-वीरौ, द्वि-जन्म-वर-पद्म-शरौ = अ, पुं, १.२, औ, वृद्धिरेचि (प्रथमयोः..निषिद्धः नादिचि सूत्रेण)
मित्रे = अ, नपुं, १.२, औ, नपुंसकाच (औङः शी आदेशः). आद्गुणः
तेन = तद्, पुं, ३.१, टा, त्यदादीनामः, अतो गुणे, टाङसिङसमिनात्स्याः, आद्गुणः
अम्बुज-अक्ष-चरण-अम्बुजषट्पदेन = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
राज्ञा = न्, पुं, ३.१, टा, अल्लोपो नः, स्तोः श्चुना श्चुः
कृता = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
कृतिः = इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
इयम् = इदम्, स्त्री, १.१, सुँ, इदमो मः, यः सौ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
कुलशेखरेण= अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः, अट्कुप्वाङ्नुम्व्यवायेऽपि
तिङन्तप्रक्रिया
अभूताम् = भू सत्तयाम्, भ्वादिः, परस्मैपदी, लुङ्, प्रथमपुरुषः, द्विवचनम्
समासाः, तद्धिताः, कृदन्ताः
श्रुति-धरौ= श्रुतिं धरति, उपपद, तौ
कवि-लोक-वीरौ= कवीनां लोकक़् ६तत्, तस्य वीरौ, ६तत्
मित्रे= [मिद्यति स्निह्यति, मिट्-त्र, मि-त्र वा, मित्रम्, द्विवचनम्
द्वि-जन्म-वर-पद्म-शरौ= जन्मनोः द्वयम् द्विजन्म, द्विजन्म यस्य सः द्विजन्मः, तेषां वरौ, वरौ पद्मश्च शरश्च पद्मशरौ द्वन्द्वः, वरौ पद्मशरौ कर्मधारयः
अम्बुज-अक्ष-चरण-अम्बुजषट्पदेन= अम्भुजमिव अक्षि यस्य सः उपमानपूर्वपदबहुव्रीहिः, तस्य चरणम्, ६तत्, चरणम् अम्बुजमिव उपमानोत्तरपदकर्मधारयः, अम्बुजस्य समीपे स्थितः षट्पदः (षट् पदानि यस्य सः बहुव्रीहिः) ६तत्

***

॥ ॐ नमो भगवते वासुदेवाय ॥