Thursday, May 1, 2025

Sri Krishna Karnamritam 1.72






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

तदिदमुपनतं तमालनीलं
तरलविलोचनतारकाभिरामम् ।
मुदितमुदितवक्त्रचन्द्रबिम्बं
मुखरितवेणुविलासजीवितं मे ॥ १.७२ ॥ 


Meaning: That phenomenon is this - Bhagavān Ṣrīkṛṣṇa - coming near me, dark like the Tamāla tree leaves, the corners of His eyes that dart hither and thither so delightful, His ever-smiling face a mirror image of the full moon, infusing ecstatic life into the melody of the flute pressed to His mouth!


व्याकरणांशाः
तदिदमुपनतं तमालनीलं
तरलविलोचनतारकाभिरामम् ।
मुदितमुदितवक्त्रचन्द्रबिम्बं
मुखरितवेणुविलासजीवितं मे ॥ १.७२ ॥
तद्, इदम्, उपनतम्, तमाल-नीलम्, तरल-विलोचन-तारक+अभिरामम्, मुदित-मुदित-वक्त्र-चन्द्र-बिम्बम्, मुखरित-वेणु-विलास-जीवितम्, मे
सन्धयः
तद्+इदम् = झलां जशोऽन्ते
उपनतम्, तमाल-नीलम्, मुदित-मुदित-वक्त्र-चन्द्र-बिम्बम्, मुखरित-वेणु-विलास-जीवितम् = मोऽनुस्वारः
तारक+अभिरामम् = अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
तद् इदम् उपनतम् तमाल-नीलम् तरल-विलोचन-तारक+अभिरामम् मुदित-मुदित-वक्त्र-चन्द्र-बिम्बम् मुखरित-वेणु-विलास-जीवितम् मे
That phenomenon is this - Bhagavān Ṣrīkṛṣṇa - coming near me, dark like the Tamāla tree leaves, the corners of His eyes that dart hither and thither so delightful, His ever-smiling face a mirror image of the full moon, infusing ecstatic life into the melody of the flute pressed to His mouth!
सुबन्तप्रक्रिया
तद् = तद्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
इदम्= इदम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
उपनतम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वं
तमाल-नीलम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वं
तरल-विलोचन-तारक+अभिरामम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वं
मुदित-मुदित-वक्त्र-चन्द्र-बिम्बम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वं
मुखरित-वेणु-विलास-जीवितम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वं
मे = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्ब्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य
तिङन्तप्रक्रिया
समासाः, तद्धिताः, कृदन्ताः
तमाल-नीलम्= तमाल इव नीलः वर्णः यस्य तत्, उपमानबहुव्रीहिः
तरल-विलोचन-तारक+अभिरामम्= तरले विलोचने क.धा, विलोचनयोः तारके ६तत्, अभिरामे तारके यस्य तत्, समानाधिकरणबहुव्रीहिः
मुदित-मुदित-वक्त्र-चन्द्र-बिम्बम्= मुदितं मुदितं (अभीक्ष्ण्ये च द्विरुक्तिः) वक्त्रम् क.धा, चन्द्रस्य बिम्बम् ६तत्, चन्द्रस्यबिम्बमिव वक्त्रं यस्य तत्, उपमानबहुव्रीहिः
मुखरित-वेणु-विलास-जीवितम्= मुखरितः वेणुः क.धा, वेणोः विलासः ६तत्, विलासः यस्य तत्, बहुव्रीहिः, तत् जीवितम् क.धा
॥ हरिः ॐ तत् सत् ॥