Saturday, May 3, 2025

भगवत्पाद नमस्ते!




जय हे शङ्कर धीर तपस्विन् भारतक्रान्तियशस्विन् !

मथितवेदान्तदिव्यविभूते तिमिरविदार मनस्विन् !

देवीप्रियलहरी तव रचना वरस्तुतिनिपुण वचस्विन् !

विष्णुगणेशशिवादिदेवतापदषट्पदे नमस्विन् !

मायामिथ्यामोहसमुद्गर प्रचण्ड वीर तरस्विन्!

चतुर्दिशासु स्थापितगुरुपद मनुजोत्थान महस्विन्!

आदिशङ्कर हे जगद्गुरवे हे ब्रह्मानन्दपयस्विन्!

जय हे शङ्कर जय हे शङ्कर शिवावतार तपस्विन्!



-श्रीशङ्करजयन्ती-