| व्याकरणांशाः |
| मूलम् | | | | |
| तन्वतामवयवेषु गतागतानि युक्तात्मनां वरद यौवचक्षुषां च । |
| विश्रान्तिभूर्विधुकरप्रकरावदाता मन्दस्मितच्छविरियं तव मां पुनातु॥ ९६॥ |
| पदच्चेदः | | | | | |
| तन्वताम्, अवयवेषु, गत-आगतानि युक्त-आत्मनाम्, वरद, यौव-चक्षुषाम्, च, विश्रान्तिभूः, विधुकर-प्रकर-अवदाता मन्द-स्मित-छविः इयम्, तव, माम्, पुनातु |
| सन्धयः | | | | | |
| गत-आगतानि, युक्त-आत्मनाम्, प्रकर-अवदाता= अकः सवर्णे दीर्घः |
| युक्त-आत्मनाम्, यौव-चक्षुषाम्, इयम्, माम् = मोऽनुस्वारः |
| विश्रान्तिभूः+विधुकर, छविः+इयम्=ससजुषो रुः |
| स्मित-छविः= छे च, स्तोः श्चुना श्चुः |
| आकाङ्क्षा-अन्वयः | | | | |
वरद! युक्त-आत्मनाम् यौव-चक्षुषाम् तव अवयवेषु गत-आगतानि तन्वताम् च विश्रान्तिभूः विधुकर-प्रकर-अवदाता इयम् मन्द-स्मित-छविः माम् पुनातु
|
| Oh Lord Varada! The minds of those meditators focussed in the Atman, the of those damsels attracted to Your beauty, roaming constantly all over Your form - their resting place is this moonlight-like white, lustrous, cool smile of Yours, and may it protect me! |
| सुबन्तप्रक्रिया | | | | |
| तन्वताम् = त्, पुं, ६.३, आम् |
| अवयवेषु= अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः |
| गत-आगतानि युक्त-आत्मनाम्= न्, पुं, ६.३, आम् |
| वरद= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात्सम्बुद्धेः |
| यौव-चक्षुषाम्= अ, पुं, ६.३, आम् |
| च = अव्ययम् |
| विश्रान्तिभूः= ऊ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| विधुकर-प्रकर-अवदाता मन्द-स्मित-छविः =इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| इयम्= इदम्, स्त्री, १.१, सुँ, इदमो मः, यः सौ, हल्ङ्याब्भ्यो दीर्घात्सुतिस्यप्क़्रितं हल् |
| तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः |
| माम्= अस्मद्, २.१, अम्, ण्गे प्रथमोरम्, त्वमावेकवचने, अतो गुणे, द्वितीयायां च, अकः सवर्णे दीर्घः, अमि पूर्वः |
| तिङन्तप्रक्रिया | | | | |
| पुनातु= पुन्, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम् |
| समासाः, तद्धिताः, कृदन्ताः | | | |
| गत-आगतानि = गतश्च आगतश्च तयोः समाहारः, तानि |
| युक्त-आत्मनाम्= आत्म्मनि युक्तः तेषाम् = ७तत् |
| वरद= वरं ददाति, हे, उपपदसमासः |
| यौव-चक्षुषाम्= युवस्य भावः, तद्धितः, यौव्नां चक्षुः, तेषाम् ६ तत् |
| विश्रान्तिभूः= विश्रान्तेः भूः ६तत् |
| विधुकर-प्रकर-अवदाता = विधोः करः ६तत्, तस्य प्रकरः ६तत्, तस्य अवदाता ६तत् |
| मन्दं स्मितं यस्य सः, मन्दस्मितः बहुव्रीहिः, तस्य छविः=६तत् |