| व्याकरणांशाः |
| मूलम् | | | | |
| वक्षःस्थलं वरद नन्दनमाश्रितस्ते येषां विभाति हरिचन्दन एष मध्ये । |
| एते चतुर्भुज भुजास्तव तस्य शाखाः शङ्के कराब्जदलकोमलिताग्रभागाः ॥७२॥ |
| पदच्चेदः | | | | | |
| वक्षःस्थलम्, वरद!, नन्दनम्,आश्रितः, ते, येषाम्, विभाति, हरिचन्दनः, एष, मध्ये, एते, चतुर्भुज!, भुजाः, तव, तस्य, शाखाः, शङ्के, कर-अब्ज-दल-कोमलित-अग्रभागाः |
| सन्धयः | | | | | |
| वक्षः+स्थलम्=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, वा शरि |
| आश्रितः+ते, भुजाः+तव= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः |
| वक्षःस्थलम्, येषाम्= मोऽनुस्वारः |
| एष = एतत्तदोः सुलोपोऽकोरनञ्समासे हलि |
| शाखाः, कर-अब्ज-दल-कोमलित-अग्रभागाः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| कोमलित+अग्रभागाः= अकः सवर्णे दीर्घः |
| आकाङ्क्षा-अन्वयः | | | | |
| वरद! ते वक्षःस्थलम् नन्दनम् येषाम् मध्ये आश्रितः एषः हरिचन्दनः विभाति। चतुर्भुज! तस्यशाखाः तव भुजाः कर-अब्ज-दल-कोमलित-अग्रभागाः शङ्के । |
| Translation | | | | |
| Oh, Lord Śrī Varadarāja! Your chest is Nandana, the celestial garden. Therein stands sheltered the Haricandana tree! Oh, the Four-armed! the tree's branches are Your four arms, ending in Your delicate lotus palms, I surmise! |
| सुबन्तप्रक्रिया | | | | |
| वक्षःस्थलम्, नन्दनम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
| वरद! चतुर्भुज!= अ, पुं, १.१, सुँ, एङ्ह्रस्वात् सम्बुद्धेः |
| आश्रितः, हरिचन्दनः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| ते = युष्मद्, पुं, ६.१, ङस्, अन्वादेशरूपम्, तेमयावेकवचनस्य |
| येषाम्= यद्, नपुं, ६.३, त्यदादीनामः, अतो गुणे, आमि सर्वनाम्नः सुट्, बहुवचने झल्येत्, आदेशप्रत्यययोः |
| एषः=एतद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सावनन्त्ययोः, आदेशप्रत्यययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| मध्ये= अ,नपुं,७.३, ङि, आद्गुणः |
| एते= एतद्, पुं, १.३, जस्, त्यदादीनामः, अतो गुणे, जसः शी, आद्गुणः |
| भुजाः, कर-अब्ज-दल-कोमलित-अग्रभागाः = अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| तव= युष्मद्, ६.१, ङस्, युष्मदस्मदभ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः |
| तस्य= तद्, पुं, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः |
| शाखाः=आ, स्त्री, १.३, जस्, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| तिङन्तप्रक्रिया | | | | |
| विभाति= वि+भा, अदादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम् |
| शङ्के= शङ्क्, भ्वादि, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम् |
| समासाः, तद्धिताः, कृदन्ताः | | | |
| वक्षःस्थलम्= वक्षसः स्थलम् ६तत् |
| वरद= वरं ददाति उपपदसमासः |
| आश्रितः=आङ्+श्रितः कृदन्तः |
| हरिचन्दनः= हरेः चन्दनः ६तत् |
| चतुर्भुज= चतुरः भुजाः= क्स्यर्मधारयः, यस्य सः, बहुव्रीहिः |
| कर-अब्ज-दल-कोमलित-अग्रभागाः = करः अब्जमिव=कर्मधारयः, कराब्जस्य दलम् ६तत्, तेन कोमलितः अग्रः भागः (कर्मधारयः) ३ तत्, ते |