Tuesday, March 5, 2024

Sri Mukundamala -4


 ॥ ॐ नमो भगवते वासुदेवाय ॥

नाऽहं वन्दे तवचरणयोर्द्वन्द्वमद्वन्दहेतोः
कुम्भीपाकं गुरुमपि हरे नारकं नाऽपनेतुम् ।
रम्या रामा मृदुतनुलता नन्दने नाऽपि रन्तुं 
भावे भावे हृदयभवने भावयेयं भवन्तम् ॥४॥

Translation: Oh, Lord Hari! I worship Your two feet not to negate this world of dualities through liberation: nor for avoiding my being dipped in the deadly boiling oil cauldrons in hell; nor indeed to enjoy the company of lissome heavenly damsels; but I pray so that I shall enshrine You in the mansion of my heart and remember You always!
Notes: The devotee, Kulaśekhara, asks not for freedom from the miseries of this dualistic world. He does not want to avoid hellish punishment. He does not also covet the company of heavenly women of pleasure. He simply wants, birth after birth, to enshrine and cherish the Lord in his heart. This shows the purity of his mind. Such a devotee is sure to receive the Lord's grace!
व्याकरणांशाः
नाऽहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्दहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नाऽपनेतुम् ।
रम्या रामा मृदुतनुलता नन्दने नाऽपि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥४॥
पदच्चेदः
न, अहम्, वन्दे, तव, चरणयोः, र्द्वन्द्वम्, अ-द्वन्द-हेतोः, कुम्भीपाकम्, गुरुम्, अपि, हरे, नारकम्, न, अप-नेतुम्, रम्या, रामा, मृदु-तनु-लता, नन्दने, न,अपि, रन्तुम्, भावे, भावे, हृदय-भवने, भावयेयम्, भवन्तम्
सन्धयः
न+अहम्, न+अप-नेतुम्, न+अपि= अकः सवर्णे दीर्घः
चरणयोः+र्द्वन्द्वम् = ससजुषो रुः
अ-द्वन्द-हेतोः+कुम्भीपाकम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
अहम्, कुम्भीपाकम्, नारकम्, रन्तुम्, भावयेयम्= मोऽनुस्वारः
रम्यारामामृदु-तनु-लताः+नन्दने= भो भगो अघो अपूर्वस्य योऽशि, हलि सर्वेषाम्
आकाङ्क्षा-अन्वयः
हरे! तवचरणयोः र्द्वन्द्वम् अ-द्वन्द-हेतोः न अहम् वन्दे, न गुरुम् नारकम् कुम्भीपाकम् अप-नेतुम् अपि, न नन्दने रम्यारामामृदु-तनु-लताः रन्तुम् अपि, भावे भावे हृदय-भवने भवन्तम् भावयेयम्
Oh, Lord Hari! I worship Your two feet not to negate this world of dualities through liberation: nor for avoiding my being dipped in the deadly boiling oil cauldrons in hell; nor indeed to enjoy the company of lissome heavenly damsels; but I pray so that I shall enshrine You in the mansion of my heart and remember You always!
सुबन्तप्रक्रिया
न, अपि = अव्ययम्
अहम् = अस्मद्, १.१, सुँ, ङे प्रथमयोरम्, त्वाहौ सौ, अतो गुणे, शेषे लोपः
चरणयोः= अ, नपुं, ६.२, ओस्, ओसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव= युष्मद्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
र्द्वन्द्वम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अ-द्वन्द-हेतोः= उ, पुं, ५.१, ङसिँ, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कुम्भीपाकम्, नारकम् = अ, पुं, २.१, अम्, अमि पूर्वः
गुरुम् = उ, पुं, २.१, अम्, अमि पूर्वः
हरे = इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
रम्यारामामृदु-तनु-लताः= आ, स्त्री, २.३, शस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नन्दने, भावे = अ, पुं, ७.१, ङि, वर्णमेलनम्
हृदय-भवने = अ, नपुं, ७.१, ङि, वर्णमेलनम्
भवन्तम् = त्, पुं, २.१, अम्, उगिदचां सर्वनामस्थानेऽधातोः, नश्चापदान्तस्य झलि, अनुस्वारस्य ययि परसवर्णः
तिङन्तप्रक्रिया
वन्दे = वन्द्, भ्वादिः, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
भावयेयम्= भू, चुरादिः, परस्मैपदी, विधिलिङ्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
अप-नेतुम् = अप+नी, तुमुन्, कृदन्तः
रन्तुम् = रम्, तुमुन्, कृदन्तः
अ-द्वन्द-हेतोः= न द्वन्द्वम् नञ् तत्पुरुषः, तस्य हेतुः, तस्मात् ६तत्
कुम्भीपाकम् = कुम्भ्याम् उखायां पाक इव पाकः उपमानपूर्वपदकर्मधारयः, पाकः यत्र= बहिव्रीहिः , तम्
नारकम्= नरकस्य अयम्, तद्धितः, तम्
रम्या, रामा, मृदु-तनु-लता= रम्यते यस्याम् सा, बहुव्रीहिः, रम् कर्तरि घञ् कृदन्तः, मृदू तनुः लता इव, कर्मधारयः
न, अहम्, वन्दे, तव, चरणयोः, र्द्वन्द्वम्, अ-द्वन्द-हेतोः, कुम्भीपाकम्, गुरुम्, अपि, हरे, नारकम्, न, अप-नेतुम्, रम्या, रामा, मृदु-तनु-लता, नन्दने, न,अपि, रन्तुम्, भावे, भावे, हृदय-भवने, भावयेयम्, भवन्तम्
हृदय-भवने= हृदयमेव भवनम्, अवधारणापूर्वपदकर्मधारयः, तस्मिन्
***
 ॥ ॐ नमो भगवते वासुदेवाय ॥

Monday, March 4, 2024

Sri Mukundamala -3

 



॥ ॐ नमो भगवते वासुदेवाय ॥

मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥३॥

Translation: Oh, Mukunda! Touching down with my forehead, I beg of You, exclusively, this boon alone- By Your compassion, may I have undistracted remembrance of Your lotus feet, constantly, and birth after birth!
Notes: The devotee, Kulaśekhara, now prays to Mukunda. What is his prayer? Not worldly gain. Not lordship over the world of men and matter. Not even liberation! In fact, he prays exclusively, plaintively, for only the constant remembrance of the Lord's lotus feet in utter devotion. For, a devotee knows deep within that constant immersion in the Love of the Lord exceeds even Mukti as it is but an empty state when shorn of the Love of God.  The word Avismṛti has to be understood as the freedom from worldly thoughts and attachments which detract one from constant immersion in the remembrance of the Lord. As Kabir says, "What is the use of constantly uttering the Lord's name on your lips, turning the rosary beads, when the mind is busy wandering all over the marketplace?" The poet stresses that he does not mind being born again and again in Samsāra, as long as he has by Mukunda's grace the constant, undistracted, remembrance of the Lord's lotus feet. 

व्याकरणांशाः
मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥३॥
पदच्चेदः
मुकुन्द, मूर्ध्ना, प्रणिपत्य, याचे, भवन्तम्, एकान्तम्, इयन्तम्, अर्थम्, अविस्मृतिः, त्वत्-चरण-अरविन्दे, भवे, भवे, मे, अस्तु, भवत्-प्रसादात्
सन्धयः
अविस्मृतिः+त्वत्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
त्वत्+चरण= झलां जश् झशि, स्तोः श्चुना स्च्चुः
चरण +अरविन्दे= अकः सवर्णे दीर्घः
भवत्+प्रसादात्=झलां जश् झाशि, खरि च
मे+अस्तु= एङः पदान्तादति
आकाङ्क्षा-अन्वयः
मुकुन्द! मूर्ध्ना प्रणिपत्य, भवन्तम् एकान्तम् इयन्तम् अर्थम् याचे = भवत्-प्रसादात् त्वत्-चरण-अरविन्दे अविस्मृतिः भवे भवे मे अस्तु
Oh, Mukunda! Touching down with my forehead, I beg of You, exclusively, this boon alone- By Your compassion, may I have undistracted remembrance of Your lotus feet, constantly, and birth after birth!
सुबन्तप्रक्रिया
मुकुन्द = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मूर्ध्ना= न्, पुं, ३.१, टा, अल्लोपोऽनः, वर्णमेलनम्
भवन्तम्, इयन्तम्= त्, पुं, २.१, अम्, उगिदचां सर्वनामस्थानेऽधातोः, नश्चापदान्तस्य झलि, अनुस्वारस्य ययि परसवर्णः
एकान्तम्= अव्ययः
अर्थम्= अ, पुं, २.१, अम्, अमि पूर्वः
अविस्मृतिः= इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्वत्-चरण-अरविन्दे, भवे= अ, नपुं, ७.१, ङि, वर्णमेलनम्
मे = अस्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
भवत्-प्रसादात्= अ, पुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः
तिङन्तप्रक्रिया
याचे= याच्, भ्वादिः, आत्मनेपदी (उभय), लट्, उत्तमपुरुषः, एकवचनम्
अस्तु = अस्, अदादिः, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्रणिपत्य = अव्ययः, प्र+नि+पत्, ल्यबन्तः
मुकुन्द= मुकं ददाति, उपपदसमासः, हे
अविस्मृतिः= विरुद्धा स्मृतिः कर्मधारयः, नञ् विस्मृतिः = नञ्तत्पुरुषः
त्वत्-चरण-अरविन्दे= तव चरणम् ६तत्, त्वत्चरणम् अरविन्दमिव उपमानोत्तरपदकर्मधारयः, तस्मिन्
मुकुन्द, मूर्ध्ना, प्रणिपत्य, याचे, भवन्तम्, एकान्तम्, इयन्तम्, अर्थम्, अविस्मृतिः, त्वत्-चरण-अरविन्दे, भवे, भवे, मे, अस्तु, भवत्-प्रसादात्
भवत्-प्रसादात्= भवतः प्रसादः, तस्मात् ६तत्

***
॥ ॐ नमो भगवते वासुदेवाय ॥

Sunday, March 3, 2024

Sri Mukundamala -2

 


ŚrīGuruvāyūrappan

॥ ॐ नमो भगवते वासुदेवाय ॥

जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो जयौ जयतु पृथ्वीभारनाशो मुकुन्दः ॥२॥

Translation: All glory and victory to this Lord, joy-giving son of Devakī, Kṛṣṇa, the beacon light of the Vṛṣṇī clan, the Dark One resembling rain-bearing clouds, the One with tender limbs, the One who unburdened the Earth of evil, the Giver of liberation, Mukunda!
Notes: The declamation, "Glory and Victory to the Lord", is more an expression of devotion than a prayer for His victory when He is Omniscient, Omnipotent and Omnipresent. It is a prayer. 
Swami-ji quotes from Adi Śaṅkara extensively to enumerate the glories of Śrī MahāViṣṇu or Bhagavān Kṛṣṇa extolled in this stanza. 
Deva is the Supreme Lord, saviour of the good and punisher of the wicked, the Eternal One.
Devakī-Nandana refers to the genesis of Kṛṣṇa, how He fulfilled her wish to be born to her.
Kṛṣṇa's glories fill thousands of pages of our scriptures, the Complete Revelation of Godhood, who at every moment gave joy, saved the good, punished the evil, protected the weak, diplomatically managed every royal situation, strategised and brought about spectacular outcomes, displayed miraculous power, knowledge, and acts of infinite love, making Him the Greatest idea of what God is and can be always. More than anything else, he is ALWAYS AVAILABLE FOR PRAYER, like ŚrīGuruvāyūrappan!
The icon of the Vṛṣṇī clan was an exemplar, who brought out the best among all those royals.
Dark and handsome, he was tender-limbed for the loving Gopis. He also unburdened the Earth of the evil rulers who were pompous, cruel and self-seeking, and He did not spare even the Yadavas in the end for their misuse of power!

व्याकरणांशाः
जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥२॥
पदच्चेदः
जयतु, जयतु, देवः, देवकीनन्दनः, अयम्, जयतु, जयतु, कृष्णः, वृष्णि-वंश-प्रदीपः, जयतु, जयतु, मेघ-श्यामलः, कोमल-अङ्गः, जयतु, जयतु, पृथ्वी-भार-नाशः, मुकुन्दः
सन्धयः
देवः, कृष्णः, कोमल-अङ्गः, पृथ्वी-भार-नाशः= ससजुषो रुः, हशि च, आद्गुणः
देवकीनन्दनः+अयम्= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
वृष्णि-वंश-प्रदीपः, मुकुन्दः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कोमल+अङ्गः=अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
अयम् देवः देवकीनन्दनः जयतु जयतु कृष्णः जयतु जयतु वृष्णि-वंश-प्रदीपः जयतु जयतु मेघ-श्यामलः कोमल-अङ्गः जयतु जयतु पृथ्वी-भार-नाशः मुकुन्दः (जयतु जयतु)
All glory and victory to this Lord, joy-giving son of Devakī, Kṛṣṇa, the beacon light of the Vṛṣṇī clan, the Dark One resembling rain-bearing clouds, the One with tender limbs, the One who unburdened the Earth of evil, the Giver of loberation, Mukunda!
सुबन्तप्रक्रिया
अयम् = इदम्,पुं, १.१, सुँ, इदमो मः, इदोऽय् पुंसि, हल्ङ्यब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
देवः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
देवकीनन्दनः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कृष्णः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वृष्णि-वंश-प्रदीपः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मेघ-श्यामलः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कोमल-अङ्गः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पृथ्वी-भार-नाशः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मुकुन्दः}अ,पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
जयतु= ज्दिय, भ्वादिः, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
देवकीनन्दनः= देवकीं नन्दयतीति, उपपदसमासः
वृष्णि-वंश-प्रदीपः= वृष्णीनां वंशः ६तत्, वंशं प्रकृष्टेन दीपयति प्रादि+उपपद
मेघ-श्यामलः= मेघ इव श्यामलः उपमानपूर्वपदकर्मधारयः
कोमल-अङ्गः= कोमलानि अङ्गानि कर्मधारयः, यस्य सः, समानाधिकरणबहुव्रीहिः
पृथ्वी-भार-नाशः= पृथ्व्याः भारः ६तत्, तं नाशयति, उपपदसमासः
मुकुन्दः = मुकुं ददाति , उपपदसमासः

***
॥ ॐ नमो भगवते वासुदेवाय ॥

Saturday, March 2, 2024

Sri Mukundamala -1

 

ŚrīRaṅganāthaSvāmī

Kulaśekhara Āḷvār
॥ ॐ नमो भगवते वासुदेवाय ॥

श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति ।
नाथेति नागशयनेति जगन्निवासेत्यालापिनं प्रतिपदं कुरु मां मुकुन्द ॥१॥

Translation: Oh, Mukunda! Kindly make me chant every moment and step of my life Your glories- The Beloved Consort of ŚrīLakṣmī, The Boon-giver, The supremely Kind One, The One who loves Devotees, The One who loots and destroys worldly miseries, My own Lord, The One reclining on the Thousand-hooded Adiśeṣa, The One who permeates all Existence!

Notes: The very first shloka is a power-packed prayer to the One who grants LIberation. The long list of epithets that Kulaśekhara pleads with the Lord to instil on his tongue to be chanted every moment and step is significant!
  1. The Beloved Consort of ŚrīLakṣmī - The word  Śrī includes all beauty, wealth, glory, munificence, grace and effulgence. When the Lord is Her Consort, we can understand His glories! So this is the true Bhagavān, Iśvara, who lacks nothing. No wonder the intelligent devotee prays to such a Lord! In fact, Swami Chinmayananda is said to have replied, when questioned how the funds would come for all his big projects, "When Narayana is encased in my heart, Lakshmi has to follow and come in!"
  2. The Boon-giver - Having all attributes is not enough if the Lord does not give. So pray to the giver, not busy self-aggrandising!
  3. The Supremely Kind One - Giving is always rooted in kindness. Pray to the Epitome of Kindness!
  4. The One who loves Devotees - The giving by the Lord is out of infinite, unconditional, eternal Love for the devotees, not in a momentary excitement.
  5. The One who loots and destroys worldly miseries - What does the best devotee pray for, when he already has the Lord's Love and Grace? Liberation from the cycle of birth and death. Remember, Mukunda is the one who liberates. 
  6.  My own Lord - The devotee is feeling extremely intimate and close to the Lord. It is not a tentative prayer to a distant source of power but to one's own.
  7. The One reclining on the Thousand-hooded Ādiśeṣa - this pithy allusion shows that to be a Lord, He should have mastered the forces that hold up the world and can terrorise it with poison. Even when He is reclining on Adiśeṣa, He remains smiling and at peace. No agitation! This is a practical demonstration of who is the real boss. 
  8. The One who permeates all Existence - The Lord is not aloof. This world is not a fleeting, illusory, mischievous trick. It is His own body and being, and we can see Divinity everywhere, for the Lord is sporting in this universe! This is possible to see as long as we are not stuck in our petty demands and egos. 
So when Kulaśekhara prays that the Lord should make him chant these names in every moment and at every step, he is showing us what an exalted devotee he is. He is not asking for wealth, health, name, fame, family and longevity. He is praying that he should be in prayer always, dwelling with body mind and soul in the Lord. This is surely the recipe for Mukti - called Jīvanmukti.

Bhagavān assures us in the SrimadBhagavadgītā:
अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८-१४॥
Oh, Arjuna, for the one who is singleminded, and constantly remembers Me. I am easily attainable; that devotee is always immersed in me and a true Yogi.
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९-२२॥
Those who single-mindedly pray to Me and worship Me shall find that all the affairs in the here and the hereafter of those constantly in worshipful Yoga are taken care of Me.

***
व्याकरणांशाः
श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति ।
नाथेति नागशयनेति जगन्निवासेत्यालापिनं प्रतिपदं कुरु मां मुकुन्द ॥१॥
पदच्चेदः
श्रीवल्लभ, इति, वरद, इति, दयापर, इति, भक्तप्रिय, इति, भव-लुण्ठन-कोविद,इति, नाथ, इति, नागशयन, इति, जगत्-निवास, इति, आलापिनम्, प्रति-पदम्, कुरु, माम्, मुकुन्द
सन्धयः
श्रीवल्लभ+इति, वरद+इति, दयापर+इति,भक्तप्रिय+इति, भव-लुण्ठन-कोविद+इति, नाथ्+इति, नागशयन+इति, जगत्-निवास+इति= आद्गुणः
जगत्-निवास= झलां जशोऽन्ते, यरोऽनुनासिकेऽनुनासिको वा
आलापिनम्, प्रति-पदम्, माम् = मोऽनुस्वारः
इति+आलापिनम्= इको यणचि
आकाङ्क्षा-अन्वयः
मुकुन्द! श्रीवल्लभ इति वरद इति दयापर इति भक्तप्रिय इति भव-लुण्ठन-कोविदइति नाथ इति नागशयन इति जगत्-निवास इति माम् प्रति-पदम् आलापिनम् कुरु
Oh, Mukunda! Kindly make me chant every moment and step of my life Your glories- The Beloved Consort of ŚrīLakṣmī, The Boon-giver, The supremely Kind One, The One who loves Devotees, The One who loots and destroys worldly miseries, My own Lord, The One reclining on the Thousand-hooded Adiśeṣa, The One who permeates all Existence!
सुबन्तप्रक्रिया
श्रीवल्लभ, वरद, दयापर, भक्तप्रिय, भव-लुण्ठन-कोविद,नाथ, नागशयन, जगत्-निवास, मुकुन्द = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
आलापिनम्= न्, पुं, २.१, अम्, वर्णमेलनम्
प्रति-पदम्, इति= अव्ययम्
माम्= य़ुष्मद्, २.१, अम्, ङे प्रथमयोरम्, त्वमावेकवचने, अतो गुणे, द्वितीयायां च, अकः सवर्णे दीर्घः, अमि पूर्वः
तिङन्तप्रक्रिया
कुरु= कृ, तनादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
श्रीवल्लभ= श्रियः वल्लभः ६तत्, हे
वरद= वरं ददाति, उपपद, हे
दयापर=दया परा यस्य अस्ति सः, हे
भक्तप्रिय= भक्ताः पिर्याः यस्य सः, बहुव्रीहिः, हे
भव-लुण्ठन-कोविद= भवस्य लुण्ठनम् ६तत्, तस्मिन् कोविदः, ७तत्, हे
नागशयन= नागः शयनं यस्य सः समानाधिकरणबहुव्रीहिः, हे
जगत्-निवास= जगत् निवासः यस्य सः, हे, बहुव्रीहिः
मुकुन्द= मुकुं इति मुकुन्दः उपपदसमासः
***
॥ ॐ नमो भगवते वासुदेवाय ॥









Friday, March 1, 2024

Sri Mukundamala - Introduction

(Cover photo of the ISKCON book )

॥ ॐ नमो भगवते वासुदेवाय ॥

Today, I am starting a new series of blogs on the famous ŚrīMukundamālāstotram by Rājā Kulaśekhara Ālvār of the 9th century CE. I was lucky to learn this as a young boy and heard it recited often. 
I am basing my notes on the wonderful lectures given by Swāmī Harṣānanda of Śrī Rāmakṛṣṇa Maṭh and also the book by Śrīla Prabhupāda and his disciples. The links are given to both here.

I quote from the back cover of the ISKCON book: 
The saintly king Kulasekhara lived more than a millennium ago in India, yet his Mukunda-mala-stotra speaks to us today with the fresh voice of eternal truth. It is the voice of a realized soul beseeching the Lord — and us — with the utmost sincerity. Here is how he calls us to our salvation: O people, please hear of this treatment for the disease of birth and death! It is the name of Kṛṣṇa. Recommended by expert yogis steeped in wisdom — such as Yājñavalkya — this boundless, eternal inner light is the best medicine, for when drunk, it bestows complete and final liberation. Just drink it. 
The first part of the Mukunda-mala-stotra contains the commentary of His Divine Grace A.C. Bhaktivedanta Swami Prabhupada, recognized by scholars and spiritual leaders worldwide as the most distinguished teacher of Indian culture and philosophy of the modern age, the latter part contains commentary by Satsvarupa dasa Goswami, one of Srila Prabhupada’s senior disciples and the author of more than two dozen books on devotional life.
*****

The inspiration for this series also comes from the Premāvatāra Bhagavān "Sri Sathya Sai Baba". After the Mere Sai TV serial, the last few months have been for me full of videos and stories about Baba from Sri. Aravind Balasubramanya and others. The amazing thing for me, after studying the Bhagavadgītā, Rāmāyaṇam and Śrīmadbhāgavatam, is how Baba or Swami is indeed living the divine sport we read about, touching in myriad seen and unseen ways thousands of devotees who live to tell his stories so eloquently! This no doubt puts me in a more devotional mood, a great opportunity that is for studying the ŚrīMukundamālāstotram. This photo of Baba shows him manifesting a gold Kṛṣṇa statue in a few minutes from the sands of the Arabian sea near Dwaraka, for the Rajmata of Jamnagar. This story can be read from several accounts on the Internet. 
*****
The introductory verse of the text:
घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने ।
तमहं शिरसा वन्दे राजानं कुलशेखरम् ॥
Translation: I bow down to that king by the name of Kulaśekhara in whose capital every day the Lord Raṅganātha's ceremonial procession Yātrā is announced and celebrated.

Notes: 
Swami-ji (=Swāmī Harṣānanda) describes how human beings are never satisfied with material welfare. Comforts and acquisitions in this world are important but the lasting bliss of the Supreme is felt in an inner urge to seek it and it can be found only in भूमा ( Infinite, Eternal)(यो वै भूमा तत्सुखं नाल्पे सुखमस्ति- छान्दोग्योपनिषद्). The path to this Supreme Bliss is through Divine Love which is also called भक्ति. Swami (=Sai Baba) calls everyone Premasvarūpis. One who has experienced any love, even worldly love, has an inkling of Bhakti. This is the essence of worship of Bhagavān whose divine attributes give ready material for extolling Him and praying for His grace. This is the essence of ŚrīMukundamālāstotram by Rājā Kulaśekhara Ālvār of the 9th century CE.  This Chera king is celebrated for his devotional works Perumal Thirumoli and ŚrīMukundamālāstotram. Thousand pillared halls named after him can be seen in both Srirangam and Thirvananthapuram temples. 

Kulaśekhara was one of the twelve Ālvārs who laid the foundation for divine love for Bhagavān Mukunda. Mukunda is explained as the "Lord who grants liberation." Liberation here means freedom from worldly bonds as well as the exhilarating launch into the world of Divine Love and Divine Bliss. Indeed the two terms are interchangeable if you think for a moment.  Swami-ji stresses how worship of the Lord with form as Śrī Kṛṣṇa or Śrī Rāma or any one of the Avatāras of Bhagavān Nārāyaṇa or Viṣṇu, or for that matter, any form of any Deity as the Supreme Being is equally efficacious as the deepest meditation and experience of the formless Brahman. 

If we do believe there is a Supreme Being= Paramātmā who is the Creator, Sustainer and Destroyer of all material existence and experience, we have to believe He or She has the ability to take any form to be loved and worshipped, by the Ātmā in us in the process of developing devotion to the Paramātmā! All religions proclaim Love is God and the path to Godhood is Divine Love. Those who think Nirguṇa or Saguṇa Brahman is superior or inferior are foolish indeed as they have not understood Paramātmā! 

व्याकरणांशाः
घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने ।
तमहं शिरसा वन्दे राजानं कुलशेखरम् ॥
पदच्चेदः
घुष्यते, यस्य, नगरे, रङ्गयात्रा, दिने, दिने, तम्, अहम्, शिरसा, वन्दे, राजानम्, कुल-शेखरम्
सन्धयः
अहम्, राजानम्= मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
तम् राजानम् कुल-शेखरम् यस्य नगरे रङ्गयात्रा दिने दिने घुष्यते अहम् वन्दे
I bow down to that king by the name of Kulaśekhara in whose capital everyday the Lord Raṅganātha's ceremonial procession Yātrā is announced and celebrated.
सुबन्तप्रक्रिया
यस्य= यद्, पुं, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः
नगरे, दिने= अ, नपुं, ७.१, ङि, वर्णमेलनम्
रङ्गयात्रा = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
तम् = तद्, पुं, २.१, अम्, त्यदादीनामः, अतो गुणे, अमि पूर्वः
अहम् = युष्मद्, पुं, १.१, सुँ, ङे प्रथमयोरम्, त्वाहौ सौ, अतो गुणे, शेषे लोपः
शिरसा = स्, नपुं, ३.१, टा, वर्णमेलनम्
राजानम् = न्, पुं, २.१, अम्, सर्वनामस्थाने चासम्बुद्धौ
कुल-शेखरम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
घुष्यते= घुष्, भ्वादिः, कर्मणि, आत्मनेपदी, लट्, प्रथमपुरुषः, एकवचनम्
वन्दे = वन्द्, भ्वादिः, आत्मनेपदी, उत्तमपुरुषः, एकवचनम्

*****
॥ ॐ नमो भगवते वासुदेवाय ॥