व्याकरणांशाः |
कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं | | | | | |
क्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः । | | | | | |
पुनःप्रसृतिचापलं प्रणयिनीभुजायन्त्रितं | | | | | |
मम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥ १.२० ॥ | | | | | |
कल-क्वणित-कङ्कणम्, कर-निरुद्ध-पीताम्बरम्, क्रम-प्रसृत-कुन्तलम्, कलित-बर्ह-भूषम्, विभोः, पुनः+प्रसृत-चापलम्, प्रणयिनी-भुज+आयन्त्रितम्, मम, स्फुरतु, मानसे, मदन-केलि-शय्या+उद्+स्थितम् |
सन्धयः | | | | | |
कल-क्वणित-कङ्कणम्, कर-निरुद्ध-पीताम्बरम्, क्रम-प्रसृत-कुन्तलम्, कलित-बर्ह-भूषम्, विभोः, पुनः+प्रसृत-चापलम्, प्रणयिनी-भुज+आयन्त्रितम्, मम, स्फुरतु, मानसे, मदन-केलि-शय्या+उद्+स्थितम् |
कल-क्वणित-कङ्कणम्, कर-निरुद्ध-पीताम्बरम्, क्रम-प्रसृत-कुन्तलम्, कलित-बद्ध-भूषम्, पुनः+प्रसृत-चापलम्, प्रणयिनी-भुज+आयन्त्रितम्= मोऽनुस्वारः |
पुनः+प्रसृत= खरवसानयोर्विसर्जनीयः |
भुज+आयन्त्रितम्= अकः सवर्णे दीर्घः |
शय्या+उद् = आद्गुणः |
उद्+स्थितम्= उदश् स्थास्तम्भोः पूर्वस्य |
आकाङ्क्षा-अन्वयः | | | | |
कल-क्वणित-कङ्कणम् कर-निरुद्ध-पीताम्बरम् क्रम-प्रसृत-कुन्तलम् कलित-बद्ध-भूषम् पुनः+प्रसृत-चापलम् प्रणयिनी-भुज+आयन्त्रितम् मदन-केलि-शय्या+उद्+स्थितम् विभोः (रूपम्) मम मानसे स्फुरतु |
The coy tinkling of bracelets, the slipping yellow garment checked by hand, His dark locks being arranged into order, His crown of peacock feathers, restrained by the embrace of His beloved, yet attempting to rise from His love-couch, may the Lord Śrīkṛṣṇa's form manifest in my mind! |
सुबन्तप्रक्रिया | | | | | |
कल-क्वणित-कङ्कणम् = अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
कर-निरुद्ध-पीताम्बरम्= अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
क्रम-प्रसृत-कुन्तलम्= अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
कलित-बर्ह-भूषम्= अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
विभोः = उ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
पुनः+प्रसृत-चापलम्= अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
प्रणयिनी-भुज+आयन्त्रितम्= अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
मम = युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः |
मानसे = अ, नपुं, ७.१, ङि, वर्णमेलनम् |
मदन-केलि-शय्या+उद्+स्थितम् = अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
तिङन्तप्रक्रिया | | | | |
स्फुरतु= स्फुरँ सञ्चलने, तुदादिः, परस्मैपदी, अकर्मकः, लोट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
कल-क्वणित-कङ्कणम् = कलं क्वणितम् कङ्कणम् क.धा, यस्य तत् उपमानबहुव्रीहिः |
कर-निरुद्ध-पीताम्बरम्= = करेण निरुद्धः ३तत्, निरुद्धः पीताम्बरः क.धा, यस्य तत् उपमानबहुव्रीहिः |
क्रम-प्रसृत-कुन्तलम्= क्रमेण प्रसृतम् ३तत्, प्रसृतं कुन्तलम् क.धा, यस्य तत् उपमानबहुव्रीहिः |
कलित-बर्ह-भूषम्= कलितम्, बर्हस्य भूषम् (६तत्) क.धा, यस्य तत् उपमानबहुव्रीहिः |
पुनः+प्रसृत-चापलम्= पुनः प्रसृतम् क.धा, प्रसृतस्य चापलम् ६तत् यस्य तत् उपमानबहुव्रीहिः |
प्रणयिनी-भुज+आयन्त्रितम्= प्रणयिन्या ३तत् आयन्त्रितम् भुजम् (क. धा), यस्य तत् उपमानबहुव्रीहिः |
मदन-केलि-शय्या+उद्+स्थितम् = मदनस्य केलिः ६तत्, तस्य शय्या ६तत्, शय्यायाः उद् स्थितम् (क.धा) ५तत् , यस्य तत् उपमानबहुव्रीहिः |