व्याकरणांशाः |
किमिदमधरवीथीक्ऌप्तवंशीनिनादं | | | | | |
किरति नयनयोर्नः कामपि प्रेमधाराम् । | | | | | |
तदिदममरवीथीदुर्लभं वल्लभं न- | | | | | |
स्त्रिभुवनकमनीयं दैवतं जीवितं च ॥ १.७१ ॥ | | | | | |
किम्, इदम्, अधर-वीथी-क्ऌप्त-वंशी-निनादम्, किरति, नयनयोः, नः, काम्, अपि, प्रेम-धाराम्, तद्, इदम्, अमर-वीथी-दुर्लभम्, वल्लभम्, नः, त्रि-भुवन-कमनीयम्, दैवतम्, जीवितम्, च |
सन्धयः | | | | | |
निनादम्, दुर्लभम्, वल्लभम्, कमनीयम्, दैवतम्, जीवितम् = मोऽनुस्वारः |
नयनयोः+नः = ससजुषो रुः |
तद्+इदम् = झलां जशोऽन्ते |
आकाङ्क्षा-अन्वयः | | | | |
अधर-वीथी-क्ऌप्त-वंशी-निनादम् किरति नयनयोः नः काम् अपि प्रेम-धाराम् तद् इदम् अमर-वीथी-दुर्लभम् वल्लभम् नः त्रि-भुवन-कमनीयम् दैवतम् जीवितम् च किम् इदम् ? |
What indeed is this phenomenon - Bhagavān Ṣrīkṛṣṇa - producing those lilting tunes on the flute pressed close to those lip-pathways and spreading a strange cascade of love into our eyes. This ecstasy is rare even for those treading the path of heaven! This darling of ours is bewitching the three worlds, it is divine and yet dwells amidst us!!!??? |
सुबन्तप्रक्रिया | | | | | |
किम् = किम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात् |
इदम् = इदम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात् |
अधर-वीथी-क्ऌप्त-वंशी-निनादम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात् |
नयनयोः = अ, नपुं, ६.२, ओस्, सुपि च, एचोयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
नः = अस्मद्, पुं, ६.३, आम्, साम आकम्, शेषे लोपः, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
काम् = का, स्त्री, २.१, अम्, अमि पूर्वः |
अपि = अव्ययम् |
प्रेम-धाराम्= आ, स्त्री, २.१, अम्, अमि पूर्वः |
तद् = तद्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात् |
इदम्= इदम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात् |
अमर-वीथी-दुर्लभम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात् |
वल्लभम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात् |
नः = अस्मद्, पुं, ६.३, आम्, साम आकम्, शेषे लोपः, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
त्रि-भुवन-कमनीयम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात् |
दैवतम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात् |
जीवितम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात् |
च = अव्ययम् |
तिङन्तप्रक्रिया | | | | |
किरति |
समासाः, तद्धिताः, कृदन्ताः | | | |
अधर-वीथी-क्ऌप्त-वंशी-निनादम् = अधरयोः वीथी ६तत्, वीथीं कॢप्ता वंशी २तत्+क.धा, वंश्याः निनादं तत्, ६तत् |
प्रेम-धाराम्= प्रेमस्य धारा, ताम् ६तत् |
अमर-वीथी-दुर्लभम् = अमराणां वीथी ६तत्, वीथ्यां दुर्लभं ७तत् |